एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यानकाग्निकाण्डे. अयाऽस्थया सन्मनस् त्तिः । अथा सन् हुव्य इष्ट च ।। ४ ।। कदा? अस्या उषसो व्युष्टौ । व्युच्छतेः क्तिन् । अस्यामुषसि व्युष्टायाम् । उपलक्षणं चैतत् सर्वोत्यर्थः । अध्यक्ष्व अवा चीनो यथा भवति तथा यक्ष्व | कं ? वरुणं अस्मासु पाशान् मुमुक्षु, नः अस्मभ्यं रराणः इष्टान्नं ददत् वीहि खाद् भृ डीकं सुखयितारं पुरोडाशादिकं अस्माभिर्दत्तम् । नः अस्माकं सुहवः सुष्ठु हवः आह्वानं यस्य सः सुहवः एाध भव । न : अस्मान् एधि वर्धय ॥ "त्वमझे इति । हे अग्रे ! त्ममयाऽसि अया असि । छान्दसस्स वर्णदीर्घः, इणोऽसुन्प्रत्ययः । भक्तानामतव्यः भक्तान्वा प्रत्येता अया संन् अयास्सन् । छान्दसस्सकारलेोपः । एवभूतस्त्वमस्मा भिः मनसा हितः प्रणिहितः असीत्यनुषङ्गः, त्वां वयं मनसि प्र णिदध्महे इत्यर्थः । अया सन् अयास्सन् । पूर्ववत्सलोपः । हव्यं अस्माभिर्दत्तं ऊाहिवे देवेभ्यो वहस्व स त्वं अयाः नः अस्मभ्यं भेषजं धेहि । इति श्रीहरदत्तविरचिते एकान्निकाण्डमन्त्रव्याख्याने चतुर्थः खण्डः.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/३६&oldid=93956" इत्यस्माद् प्रतिप्राप्तम्