एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 संभाव्यते चेचदं हरदत्तभाष्यं भट्टभास्करभाष्यादनतिभेदमेव भवदितेि. यतः पितृमेधप्रपाठकस्य हरदत्तभाष्यं भट्टभास्कर भाष्याद्नतिभेदमेव कस्मिश्वित्प्रतनकोशेऽस्माभिरुपलभ्यते । होळे नरसीपुरादानीते उत्तरादिमठीयकोशागारस्थिते देवनागराक्षरमध्ये तैत्तिरीयारण्यकभट्टभास्करभाष्यस्य प्रततमे कोशे (९८) पत्रे “इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये तृतीयप्रपाठकस्स माप्तः' इत्यतदनन्तर प्रणिपत्य महादेवं हरदत्तेन धीमता । पैतृमेधिकमन्त्राणां व्याख्यानं क्रियतेऽधुना । इत्युपक्रम्य पैतृमेधिकमन्त्रभाष्यं लिखिनं दृश्यते । तच प्रायो भट्टभास्करीयभाष्यादनातभेदमेव (११६) पत्रान्तं पञ्धमानुवाकोय त्रयोदशमन्त्रभाष्यपर्यन्तमुपलभ्यते । तदनन्तरं च पत्रलोपः उपनि षद्भाष्यारम्भं यावत् । दृश्यमानं चेदमकाग्यिकाण्डभाष्यं हरदत्तस्यैवेत्यत्र तु न सन्देग्धव्यम् । आदौ 'प्रणिपत्य....विधीयते ? इति पद्यदर्शनात् । माधवीयधातुवृत्तिोऽपि चायमर्थो निर्धायते । यतस्तत्र धातुवृ तौ तुदादौ पिशधातौ “अयं दीपनायामपि वर्तते । तथाच

  • त्वष्टा रूपाणि पिंशतु' (१-१३) इत्यत्र हरदत्तः-पिंशतिर्दी

प्तिकर्मा 'नक्षत्रेभिः पितरो द्यामपेिशन्' इत्यत्र दर्शनात्' इत्येव मेतदेकाग्किाण्डभाष्यवाक्यमुदाहृतम् ॥ स चायं हरदत्तः आपस्तम्बीयश्रौतगृह्यधर्मसूत्राणां ८व्या ख्यातैवेति न केवलं प्रतिपत्तव्यम् । किन्तु काशिकावृत्तिव्यख्यिा रूपपदमञ्जरीकारोऽपीति । 'पावनं च नास्रः ’ इति धर्मसूत्रेोज्जला याः ‘प्रत्यभिवादे शूद्वे ' इति सूत्रपदमञ्जर्याश्च प्रत्यभिवादीया भिधानावसानपृथगकारप्रयोगव्यवस्थापनरूपासाधारणाथैककण्ठ्यात् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/५&oldid=93923" इत्यस्माद् प्रतिप्राप्तम्