एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमप्रपाठके नवमः खण्डः. 45 वर्मसि ध्रुवतंस्थितः । त्वं नक्षत्राणां मेथ्यसि स मां पाहि पृतन्यतः । सप्तऋषयः प्रथमां कृत्तिका नामरुन्धतीं यहूवता' ह निन्युः । षत्तिका मुख्य ध्रुवं दर्शयति-ध्रुवेति । ध्रुवाक्षितिः ध्रुवानिवासः ध्रुवयोनि ध्रुवोत्पत्तिः अन्येषां नक्षत्राणां श्रुवतः ध्रुवत्वहेतौ स्थितं स्वयं च ध्रुवं नक्षत्रं त्वमसि । कुत एतत् ? त्वं नक्षत्राणां भ्रमतां मे थ्यसि मेथी खलेवाली असि । सा यथा बलीवर्दानां अ नपगमने हेतुः स्थाणुः तथा त्वं नक्षत्राणाम् । य एवम्भूतः स त्वं मा मां पृतन्यतः योदुकामात् पाहि । 'अरुन्धतीं दर्शयति-सक्षेति । सप्तर्षयः काश्यपादयः । तेषां कृत्तिका नाम भार्याः सप्त । तासामस्न्धती नाम सप्तमी पतिव्रता प्रधानंभूता निश्चला च । इतरा व्यभिचारशङ्कया त्यक्ता इत्यैतिहासिकाः स्मरन्ति । तदिदमुच्यते सप्तर्षयः काश्यपाद्यः कृत्तिकानां प्रथमां" अग्रगण्यां अरुन्धतीं यत् यदा ध्रुवतां निश्चलतां हेति प्रसिद्धिं दर्शयति निन्युः नयन्ति स्म । यदिति वचनात् तदेति अध्याहार्यम् । तदा इतराः घट्टत्तिकाः अरुन्ध त्यां , मुख्ययोगं प्रधानभावं वहन्ति आवहंन् अभ्युपगतवत्यः । तस्याः अरुन्धत्याः दर्शनेन इयं वधूः अस्माकं * अस्मदो द्वयो श्र ' इत्येकस्मिन् बहुवचनम् । मम अष्टमी भूत्वा एधतु वर्धताम् , अहं सप्तर्षीणामष्टमस्थानीयो भूयासम्, इयमपि कृत्तिकादीनामष्ट मस्थानीया भूयादित्यर्थः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/५७&oldid=93976" इत्यस्माद् प्रतिप्राप्तम्