एतत् पृष्ठम् अपरिष्कृतम् अस्ति

52 सव्याख्यानकाश्मकाण्ड त्रकामे । 'समंञ्जन्तु विश्वे देवात्समापो हृदयानि नौ । सं मांतरिश्वा सं धाता समुदेष्ट्रीदिदेछु नैौ। 'प्रजांपते तन्वं मे जुषस्व त्वष्टर्देवेभिस्सहसाम इंन्द्र । विश्वर्देवै रातिभिस्स५ रराणः पु५सां बहूनां उत्तरयाऽऽज्यशेषेण हृदयदेशौ समनक्ति-सभञ्जन्त्विति । नौ अावयाः हृदयानि, व्यापारबहुत्वात् बहुवचनम् । विश्वे देवाः समञ्जन्तु सन्नेहानि कुर्वन्तु । आपश्य समञ्जन्तु । मातरिश्वा वायुः सोऽपि समन फु | धाता समनतु ! समित्यस्य देष्ट्रीत्यने न ां ' सम्बन्धः । उकारोऽनर्थकः । संदेष्ट्री अन्तर्भावितण्यर्थोऽयम् । सन्देशस्य कारयित्री । संदेशः परस्परसंभाषणम् !" का पुनः संदेट्री ? सरस्वती, संभाषणस्य तदायत्तत्वात् । गर्भाधाने च तस्या व्यापारदर्शनात् 'गर्भ “ धेहि सरस्वति' इति । सा सं ! देष्ट्री दिदेष्टुः । अयमप्यन्तर्भावितण्यर्थः । सन्देशं कारयतु नौ आवयोः सम्भोगकालानुरुपं सम्भाषणं सरस्वती कारयवित्यर्थः । ‘अथ जपः-हे प्रजापते ! त्वं मे तन्वं तनू शरीरं जुषस्व सेवस्व प्रविश । येनाहं रेतस्सेके समर्थस्यां “आसिञ्चतु प्रजा पतिः' $ इतेि दर्शनात् । हे त्वष्टः ! त्वमपि मे तन्वे जुषस्व । देवेभिः देवैः देवाः विष्ण्वाद्य 'विष्णुर्योनि कल्पयतु'$ इत्यादिमन्त्रे निर्दिष्टाः तैस्सह । कीदृशस्त्वम् ? सहसामः सहरसानच्, सहसानः, तस्यैव छान्दसो नकारस्य मकारः । रूपनिर्माणे स ४ दिदेष्टीति पा. 1 दिदेष्टित्याख्यातेन. : १-१३-२. 5१-१३-१ .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/६४&oldid=93983" इत्यस्माद् प्रतिप्राप्तम्