एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमप्रपाठकः त्रयोदशः खण्डः. 59 मादधे । एवं त्वं गर्भमधथ्स्व दशामे मासि सततं वे । यथा पृथिव्यन्निगर्भा दौर्यथेन्द्रेण गर्भिणीं । वायुर्यथां दिशां गर्भ एवं गर्भ दधामि ते । वि ष्णो श्रेष्ठेन रूपेणास्यां नार्य गर्वीन्यांम् । पुमा सं गर्भमाधेहि दामे मासि सूर्तवे । 'नेजमेष प दानीं तिष्ठति तथैव तिष्ठन्ती उत्ताना सतीत्यर्थः । उत्तानत्यव बह्वचानां पाठः । गर्भमादध द्युलोकतो निषिक्त वृष्टिलक्षणं रेतो गृहीत्वा सस्यलक्षणं गर्भ पृथिवी यथा धारयति एवं त्वं गर्भ अाधत्स्व धारय । दशमे मासि इति गतम् । यथा पृथिवीति । पार्थिवेषु अरण्यदिषु अन्नेरवस्थानात् पृथिवी अन्निगर्भत्युच्यते, द्युलोके इन्द्रः प्रधानभुतः, सः तस्याः गर्भत्वेन निरूप्यते, वायुश्च दिग्भ्यः प्रभवति, तेनासौ तासां गर्भः, यथा आसां एते गर्भाः एवं गर्भ दधामि ते । "विष्णो इति । हे विष्णो ! श्रेष्ठेन रूपेण युक्त पुमांसं गर्भ अस्यां नायं आधेहि । कीदृश्यां नाय ? गवीन्यां कमेरेत दूपम् । कमनीयायां काम्यायां कामयितुं योग्यायां ऋतुस्नाता यामित्यर्थः । अन्ये तु गविनोति स्त्रीणां वीर्यातिशयस्याभिधानं मन्यन्ते 'वि ते भिनदि तकरी वि योनिं वि गवीन्यौ '* इति दर्श नात् । अस्यां नार्या या गविनी तस्यामित्यर्थः । दशमे मासीति गतम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/७१&oldid=93990" इत्यस्माद् प्रतिप्राप्तम्