एतत् पृष्ठम् अपरिष्कृतम् अस्ति

60


५०-५०-५०

सव्याख्यानाकाण्ड -५०-५०-७०--------------------------------------------------------------------------------------------------------- रांपतु सपुत्रः पुनरार्पत । अस्यै मे पुत्रकामायै ग र्भमाधेहि यः पुमान्। व्यस्य योनिं प्रति रेतों गू हाण पुमांन्पुत्रो धीयतां गर्भ अन्तः । तें माता दंशामासों बिभर्तु स जयतां वीरर्तमस्वानम् । आ ते गर्भा योनिमेतु पुमान्बाणं इवेषुधिम् । आ 'नेजमेषेति । स्कन्दुग्रहेष्वन्यतमः नेजमेप इतीतिहासपु राणयोः प्रसिद्धः । तथाच वैद्यके 'कुमारग्रहपीडायां नेजमेषं च पूजयेत् ' इति पठयते । हे नेजमेष ! परापत परागच्छ त्वं हि गर्भस्य दूषकः । यद्यवश्यमागन्तव्यं सपुत्रः पुनरापत पुत्रं गृहीत्वा आगच्छ । आगत्य च अस्यै मे मम स्वभूतायां अस्यां पुत्रकामायां गर्भमाधहि । कीदृशं ? यः पुमान् ॥ व्यस्येति । मया निषिच्यमानं रेतः त्वं योनिं व्यस्य विक्षिप्य विवृत्य प्रतिगृहाण । तथा सति ते अन्तः गभों धीयतां, स च पुमान् पुत्रः धीयताम् । तं च माता त्वं दशमासः मासशब्दस्य अयं “पदन्' इत्यादिसूत्रेण मासादेशः । दशा मासान् बिभर्तु, पुरुषव्यत्ययः, बिभृहि । स च स्वानां ज्ञात नां मध्ये वीरतमः भूत्वा जायताम् ॥ आ त इति । ते तव योनिं पूमान् गर्भः ऐतु आगच्छतु। क इव ? बाण इव इषुधिं इषवो यत्र धीयन्ते तं यथा वाणः प्रविशति तद्वत् । यदा चासौ दशमास्यो भवति दशमासभू

  • सन्धि.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/७२&oldid=93991" इत्यस्माद् प्रतिप्राप्तम्