एतत् पृष्ठम् अपरिष्कृतम् अस्ति

70 सच्याख्यानैकान्निकाण्डे . मानामभि त्वाऽध५ सहीयसा । मामनु प्र ते म नों वथ्सै गौरैिव धावतु पथा वारैिव धावतु॥१६॥ सहावहै द्वे च ॥१६॥ उदुसौ सूर्यो अणादुद्यं मम्मको भर्गः । अहं उत्तरया शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयात्- उप तेऽधामिति ॥ भर्तारं प्रतीदमुच्यते । इमां सहमानां ते तव उपाधां अधोऽधां तामेव त्वा अभ्यधां तवोपर्यधां सहीयसा अतिशयेनाभिभवित्रा मनसा युक्ता । एवंचव तथा परिग्रहः कर्तव्यः यथैको हस्तो भर्तुरधो निहितो भवति अपरश्रेोपरि । एवं कृते सति मामनु मां प्रति ते भन्नः प्रधावतु वत्सं गौरिव यथाऽचिरप्रसूता गौः वत्सं प्रति धावति, तथा पथा वारिव यथा च निन्नेन पथा वारि धावति तद्वत् । इति श्रीहरदत्तविरचित एकान्निकाण्डमन्त्रव्याख्याने षोडशः खण्डः, सपतीबाधनार्थमुत्तरेणानुवाकेन अहरहरादित्यमुपतिष्ठत -उदसौ सूर्य इति । असौ सूर्यः उद्गात् । तमनु मा मकः मम स्वभूतः भगः सौभाग्यं उपस्थेन्द्रियं वा । ' उच्छ व्दस्य पुनःश्रुतेः अगात् इत्यपेक्षते । यथाऽयं सूर्यः प्रवर्धमानः उदेति एवं मम भगोपि उदेत्वित्यर्थः । तत् तस्मात्कारणात् अहं विद्वला वेदनं वित् तद्वती अनया विद्यया तद्वती पतिं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/८२&oldid=94001" इत्यस्माद् प्रतिप्राप्तम्