एतत् पृष्ठम् अपरिष्कृतम् अस्ति

74 _____ __________ _____ ___ __ ______ ___________ सव्याख्यानकाग्मिकाण्डे. ___ ________ ______ _____ ___ _______ _______ _______ __ __ ________ _____________ _ विवृहामि ते । 'ऊरुभ्यां तेऽष्टीवद्रयां जङ्कभ्यां प्रपदाभ्याम् । यक्ष्म श्रेोणीभ्यां भासदांडू५ सो विवृहामि ते । मेहंनाद्वलङ्करणालेोर्मभ्यस्ते नखे भ्र्यः । यक्ष्म सर्वस्मादात्मनस्तमिमं विवृहामि ते । अङ्गमदुङ्गालोस्रोलोस्रो जातं पर्वणिपर्वणि यक्ष्म* सर्वस्माद्वात्मनस्तमिमं विवृहामि ते । ऊरुभ्यामिति ॥ ऊरू प्रसिडौ । अष्ठीवद्रव्यां ऊरुजा न्वोः सन्धिप्रेदशाभ्याम्, जड़े प्रसिद्धे । पपदाभ्यां पादाग्रा भ्यां श्रोणीभ्यां उरुमूलाभ्यां भासदात् भसदिति, गुह्यप्रदेशे अवयवविशेषस्य नाम भसदेव भासदं तस्मात् ध्वंसः नाभेः गुदवलयादित्यन्ये ॥ मेहनादिति । मेहनं प्रजननम् । वलङ्करणात्, नकारस्य लकारः छान्दसः । नकारमेव बदृचाः पठन्ति । वनं वननं त तक्रियतेत येन तद्वनैकरणं सर्वो हि लोकः तेन वशीकृतः । एवम्भूतात् मेहनात् । अन्ये तु उ अलङ्करणात् इति छेदमाहुः अलङ्करणात् मेखलाप्रदेशात्, लोम नखं च प्रसिद्धम् । सर्वस्मात् आत्मनः उक्तादनुक्ताच प्रदेशात् तमिमं यक्ष्मै विवृहादि । अङ्गादङ्गादिति । सर्वस्मादङ्गात् लोस्रोलोन्नः सर्वेभ्यो लोमः भ्यश्च पर्वणिपर्वणि प्रतिपर्वसन्धि जातं यक्ष्मं सर्वस्मादिति गतम् ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/८६&oldid=94005" इत्यस्माद् प्रतिप्राप्तम्