एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः परिच्छेदः । १४ पादमूलमुपसर्पतो दिदङ्क्षतो दन्दशूकादिव ततो भोजनादुदः विजेत । स सातृरुपदेशस्य स्वस्य संविदथस्मरत्। महच्चा नुसमज्वरेत् । क्षणं च प्रतिपत्तिमूढोऽभवत् । तत ऊर्चमासना दुत्थाय च बहेरागमत् । यतो रिचमण्डतो लन्दने सप्तहस्य सकृद् द्विर्वा ऽऽगमः शक्योऽभूदतो भिषजा श्रीप्राणजीवनेन प्रचोदितः श्रीगन्धी लन्दननगर्यां क्कचिनेहे कुटुम्बाङ्गतया स्थितिमंकुरुत । अचिरेणैव च कालेन लन्दनवासेन यूनः श्रीगान्धिनो हृदय मयोधातुवियस्कान्तशकलेन हरिण्या पश्चिमया सभ्यतया समाकृष्टम् । सुहृत्प्रेरणया च फलितम् । अङ्गलाचरेष्वस्याभि रुचिरुदैत् । क्रमेण च प्रचयमुपैत् । महनस्य तत्र पक्षपातो ऽभूत्। सः अङ्गलमङ्कल्पम् , आङ्गले नृत्यगीते, आङ्गलानु द्धर्षान् , आङ्गलानाचरांश्च मनोज्ञम्यमन्यत । अतो नृत्यगीत दिष्व(त्मनं विनेतुं स कमपि सभ्यतममङ्गलमुपसीदत् । स



-

- - - - - - - - - - - - - - - - - - - - - - १ अनु संमज्वरत् अन्धत-यतेत्यनर्थान्तरम् । तथा चौपनिषदं श्रुतिः आत्मानं चेद्विजानीयादयसस्मीति पूरुषः । किमिच्छकस्य कामाय शरीरमसंज्वरेत् ॥ २ अवश्यं हरतीति हारिणी । चेतोहरेत्यर्थः । आवश्यके णिनिः । ३ आकल्पो वेषः । आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्इत्यमरः । ४ नपुंसकमनपुंसकेनैकवच्चान्यतरस्याम् इति क्लीबं शिष्यते । एकवद्भावस्तु वैकल्पिकत्वन कृतः । ५ उपपूर्वः सदिऍरोरभिगमे वर्तते । पाणिनिमुपसेदिवान् कौत्सः।