पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः अत्रोद्देशकः । सप्तार्धशतक योगे वृद्धिस्त्वष्टाविंशतिरशीया । कालेन केन लब्धा कालं विगणय्य कथय सखे ॥ १५ ॥ विंशतिषशतकस्य प्रयोगतः सप्तगुणषष्टिः । वृद्धिरपि चतुरशीतिः कथय सरवे कालमाशु त्वम् ॥ १६ ॥ षट्शतेन हि युक्ताः षण्णवतिर्वृद्धिरत्र सन्दृष्टां | सप्तोत्तरपञ्चाशत् त्रिपञ्चभागच कः कालः ॥ १७ ॥ भाण्डप्रतिभाण्डसूत्रम्— भाण्डस्वमूल्यभक्तं प्रतिभाण्डं भाण्डमूल्यसङ्गुणितम् । स्वेच्छाभाण्डाभ्यस्तं माण्डप्रतिभाण्डमूल्यफलमेतत् ॥ १८ ॥ अत्रोद्देशकः । 67 क्रीतान्यष्टौ शुण्ठ्या: पलानि षड्भि: पणैः सपादांशैः । पिप्पल्याः पलपञ्चकमथ पादोनै: • पणैर्नवभिः ॥ १९ ॥ शुण्ठ्या: पलैश्च 'केनचिदशीतिभिः कति पलांनि पिप्पल्याः । क्रीतानि विचिन्त्य त्वं गणितविदाचक्ष्व मे शीघ्रम् ॥ २० ॥ इति मिश्रकव्यवहारे पञ्चराशिकविधि: समाप्तः || वृद्धिविधानम् ॥ इतः परं मिश्रकव्यवहारे वृद्धिविधानं व्याख्यास्यामः । मूलवृद्धिमिश्रविभागानयन सूत्रम्-- रूपेण कालवृद्ध्या युतेन मिश्रस्य भागहारविधिम् । कृत्वा लब्धं मूल्यं वृद्धिर्मूलोनमिश्रधनम् ॥ २१ ॥ 1 Both M and B have the erroneous reading कश्चित् त्वर्शातिभिः स च पलानि पिप्पल्या:.