पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः अत्रोद्देशकः । सप्तत्या वृद्धिरियं चतुःपुराणाः फलं च पञ्चकृतिः । मिश्रं नव पञ्चगुणाः पादेन युतास्तु किं मूलम् ॥ ३० ॥ त्रिकषष्ट्या दत्वैकः किं मूलं केन कालेन । प्राप्तोऽष्टादशवृद्धिं षट्षष्टिः कालमूलुमिश्रं हि ॥ ३१ ॥ अध्यर्धमासिकफळं षष्ट्याः पञ्चार्धमेव सन्दृष्टम् । सृद्धिस्तु चतुर्विंशतिरथ षष्टिर्मूलयुक्तकालय ॥ ३२ ॥ प्रमाणफलेच्छाकालमिश्रविभागानयनसूत्रम् – मूलं स्वकालवृद्धिविकृतिगुणं छिन्नमितरमूलेन । मिश्रकृतिशेषमूलं मिश्रे क्रियते तु सङ्क्रमणम् ॥ ३३॥ अत्रोद्देशकः । अध्यर्धमासकस्य च शतस्य फलकालयोन मिश्रधनम् । द्वादश दलसंमिश्रं मूलं त्रिंशत्फलं पञ्च |॥ ३४ ॥ मूलकालवृद्धि मिश्र विभागानयनसूत्रम्- मिश्रादूनितराशिः कालस्तस्यैव रूपलाभेन । सैकेन भजेन्मूलं स्वकालमूलानितं फलं मिश्रम् ॥ ३५ ॥ अत्रोद्देशकः । पञ्चकशतप्रयोगे न ज्ञातः कालमूलफलराशिः । तन्मिंश्र 'द्वाशीतिर्मूलं किं कालवृद्धी के ॥ ३६॥ 1 fhis wrong form as the reading found in the MSS; and the correct form अशीति does not satisfy the exigencies of the metre.