पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः स्कन्धं चतुर्भिस्सहिता त्वशीतिः मूलं भवेत्को नु विमुक्तिकालः ॥ ५८ ॥ षष्ट्या मासिकदृद्धिः पञ्चैव हि मूलमपि च पश्चत्रिंशत् । मासत्रितये स्कन्धं त्रिपञ्चकं तस्य कः कालः ॥ ५९ ॥ समान वृद्धिमूल मिश्र विभागसूत्रम् -- मूलैः स्वकालगुणितैर्वृद्धि विभक्तैस्समासकैर्विभजेत् । मिश्रं स्वकालनिघ्नं वृद्धिर्मूलानि च प्राग्वत् ॥ ६० ॥ अत्रोद्देशकः । द्विकषट्चतुश्शतके चतुस्सहस्त्रं चतुश्शतं मिश्रम् । मासइयेन वृद्धचा समानि कान्यत्र मूलानि ॥ ६१ ॥ त्रिकशतपञ्चकसप्ततिपादोनचतुष्कषष्टियोगेषु नवशतसहस्रसङ्ख्या मासत्रितये समायुक्ता ॥ ६२ ॥ विमुक्तकालस्य मूलान वनसूत्रम्- स्कन्धं स्वकालभक्तं विमुक्तकालेन ताडितं विभजेत् । निर्मुक्तकालवृद्ध्या रूपस्य हि सैकया मूलभ || ६३ || अत्रोद्देशकः । पञ्चकशतप्रयोगे मासौ हौ स्कन्धमष्टकं दत्वा । मासैप्षष्टिभिरिह वै निर्मुक्तः किं भवेन्मूलम् ॥ ६४ ।। ह्रौ सत्रिपञ्चभागौ स्कन्धं द्वादशदिनैर्ददात्येकः । 8 73