पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

76 गणितसारसङ्ग्रहः प्रथमस्यांशत्रितयं त्रिगुणोत्तरतश्च पञ्चभिर्भक्तम् । दीनाराणां त्रिशतं त्रिषष्टिसहितं क एकांशः || ८१३ ॥ आदाय चाम्बुजानि प्रविश्य सच्छ्रावकोऽथ जिननिलयम् । पूजां चकार भक्त्या पूजार्हेभ्यो जिन॑न्द्रेभ्यः ॥ ८२ ॥ वृषभाय चतुर्थांशं षष्ठांशं शिष्टपार्श्वाय । द्वादशमथ जिनपनये त्र्यंशं मुनिसुत्रनाय ददौ || ८३ ॥ नष्टाष्टकर्मणे जगदिष्टायारिष्टनेमयेऽष्टांशम् । षष्ठघ्नचतुर्भागं भक्त्या जिनशान्तये प्रददौ ॥ ८४ ॥ कमलान्यशीतिमिश्राण्यायातान्यथ शतानि चत्वारि । कुसुमानां भागाख्यं कथय प्रक्षेपकाख्यकरणेन ॥ ८५३ ॥ चत्वारि शतानि सरखे युतान्यशीत्या नरैर्विभक्तानि । पञ्चभिराचक्ष्व त्वं डित्रिचतुःपञ्चषङ्गुणितैः ॥ ८६३ ॥ इष्टगुणफलानयनसूत्रम् भक्तं शेषैर्मूलं गुणगुणितं तेन योजितं प्रक्षेपम् । तदुद्द्रव्यं मूल्यघ्नं क्षेपविभक्तं हि मूल्यं स्यात् || ८७३ || अस्मिन्नर्थे पुनरपि सूत्रम्-- फलगुणकारैर्हत्वा पणान् फलैरेव भागमादाय । प्रक्षेपके गुणास्स्थुस्त्रैराशिकनः फलं वदेन्मतिमान् ॥ ८८ ॥ अस्मिन्नर्थे पुनरपि सूत्रम्- स्वफलहृताः स्वगुणघ्नाः पणास्तु तैर्भवति पूर्ववच्छेषः । इष्टफलं निर्दिष्टं त्रैराशिकसाधितं सम्यक् ॥ ८९३ ॥