पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः अत्रोद्देशकः कः । द्वाभ्यां त्रीणि त्रिभिः पञ्च पञ्चभिस्तप्त मानकैः । दाडिमाम्रकपित्थानां फलानि गणिनार्थवित् ॥ ९०३ ॥ २ 77 कपित्थात् त्रिगुणं ह्याम्रं दाडिमं षड्गुणं भवेत् । क्रीत्वानय सवे शीघ्रं त्वं षट्सप्ततिभिः पणैः ।। -९१३ ॥ दध्याज्यक्षीरघटैर्जिन/बेम्बस्याभिषेचनं कृतवान् | जिनपुरुषो द्वासप्ततिपलैस्त्रयः पूरिताः कलशाः || ९२ ॥ द्वात्रिंशत्प्रथमघटे पुनश्चतुर्विंशतिर्हिनी घटे । षोडश तृतीयकलशे पृथक् पृथक् कथय में कृत्वा ॥ ९३३ ॥ तेषां दधिघृतपयसां ततश्चतुर्विंशतिघृतस्य पलानि । षोडश पयःपल|नि द्वात्रिंशद् दधिपलानी ॥ ९४ ॥ वृत्तिस्त्रयः पुराणाः पुंसवारोहकस्य त्रापि । सर्वेऽपि पञ्चषष्टिः केचिद्भमा घनं तेषाम् ॥ ९५३ ॥ सन्निहितानां दत्तं लब्धं पुंसा दशैव चैकस्य । के सन्निहिता भग्नाः के मम सञ्चिन्त्य कथय त्वम् ॥ ९६३ ॥ इष्टरूपाधिकहीनप्रक्षेपककरणमूत्रम्-- पिण्डोऽधिकरूपोनो हीनोत्तररूपसंयुतः शेषात् । प्रक्षेपककरणमतः कर्तव्यं तैर्युता हीनाः ॥ ९७ ॥ अत्रोद्देशकः । प्रथमस्यैकांशोऽतो द्विगुणद्विगुणोत्तराद्भजन्ति नराः | चत्वारोऽशः कस्स्यादेकस्य हि सप्तर्षाष्टिरिह ॥ ९८ ३ ॥