पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः वलिकाकुट्टीकार. ॥ इतः परं वल्लिकाकुट्टीकारगणितं व्याख्यास्यामः । कुट्टीकार वडिकार्गणतन्यायसूत्रम्- 80 छित्वा छेदेन राशि •प्रथमफलमपोह्याप्तमन्योन्यभक्तं स्थाप्योर्ध्वाधर्यतोऽयो मतिगुणमयुजाल्पेऽवशिष्टे धनर्णम् । छित्वाचः' स्वोपरिन्नोपरिवृतहरभागोऽधिकाग्रस्य हारं छित्वा छेदेन साग्रान्तरफलमधिकाग्रान्वितं हारघातम् ॥ ११५ ॥ अत्रोद्देशकः । जम्बूजम्बीररम्भाकमुक पनसरदर्जूर हिन्तालताली- पुन्नागाबाद्यनेकटुमकुतुम 'फलैर्न प्रशारदाधिरूडम् | भ्राम्यद्भृङ्गाब्जवापीशुकपिककुलनानाध्वनिव्याप्तदिक्कं पान्थाः श्रान्ता वनान्तं श्रमनुदममलं ते प्रविष्टाः प्रहृष्टाः ॥ ११६ || राशित्रिषष्टिः कदलीफलानां सम्पीड्य संक्षिप्य च सप्तभिस्तैः । पान्यैस्त्रयोविंशतिभिर्विशुद्धा राशेस्त्वमेकस्य वद प्रमाणम् ॥ ११७३॥ राशीन् पुनर्द्वादश दाडिमानां समस्य संक्षिप्य च पञ्चभिस्तैः । पान्थैर्नरैर्विंशतिभिर्निरेकै भैक्तांस्तथैकस्य वद प्रमाणम् ॥ ११८३ ॥ दृष्ट्वाम्रर|शीन् पथिको यथैक- त्रिंशत्समूहं कुरुते त्रिहीनम् ।