पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

88 गणितसारसङ्ग्रहः कालेन व्यत्ययार्धंस्स्यात्सषोडशशतं पणाः । तयोरर्धफले ब्रूहि त्वं उष्ट पृथक पृथक् ॥ १५६ ॥ सूर्यरथा वेष्टयोग योजनान-अनसूलम- 1 अखिलाप्ताखिलयाजनसङ्ख्यपर्याययोजनानि नानीष्टयोगसङ्ख्य निघ्नान्येकैकगमनमानानि ॥ १५७ ।। अत्रोद्देशकः । रविस्थतुग्गास्सप्त हि चत्वारोऽवा वहन्ति धूर्युक्ताः | योजनमततिगतः के व्यूढाः के चतुगः ॥१५८ ।। सर्वधनेष्टहीनशेषपिण्डात् स्वस्वहस्तगाधनानयनसूत्रम्- रूपोननरैर्विभजेत् पिण्डीकृतभाण्डसारमुपलब्धम् । सर्वधनं स्यात्तस्मादुक्तविहीनं तु हस्तगतम् || १५९ ॥ अत्रोद्देशकः । वणिजस्ते चत्वारः पृथक् पृथक शौल्किकेन परिपृष्टाः । किं भाण्डसारमिति खलु तत्राहैकां वणिकुच्छ्रेठः ॥ १६० ॥ आत्मघमं विनिगृह्य द्वाविंशतिरिति ततः परोऽवोचत् । त्रिभिरुत्तरा तु विंशतिरथ चतुरधिकैव विंशतिस्तुर्थः ॥ १६१ सप्तोत्तर विंशतिरिति समानसारा निगृह्य सर्वेऽपि । ऊचुः किं ब्रूहि सखे पृथक पृथग्भाण्डसारं मे ॥ १६२ ॥ अन्योऽन्यमिष्टरत्नसङ्ख्यां दच्वा समधनानयनसूत्रम् पुरुषसमासेन गुणं दातव्यं तद्विशोय पण्येभ्यः । शेषपरस्परगुणितं स्वं स्वं हित्वा मणेर्मूल्यम् ॥ १६३ ॥