पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः अज्ञातवर्णहेम्न ः पञ्च विमिश्रक्षयं च सैकदश | अज्ञातवर्णसङ्ख्यां ब्रूहि सरवे गणिततच्चज्ञ ॥ १७८ ।। चतुर्दशैव वर्णानि सप्त स्वर्णानि तत्क्षये । चतुस्वर्णै दशोत्पन्नमज्ञातक्षयकं वद ॥ १७९ ।। अज्ञातस्वर्णीमयनसूत्रम् – स्वस्वर्णवर्णविनिहतयोगं स्वर्णेक्यगुणितदृढवर्णात् । त्यक्त्वाज्ञातस्वर्णक्षयद्दढवर्णान्तराहृतं कनकम् ।। १८० ।। अत्रोद्देशकः । द्वित्रिचतुःक्षयमानास्त्रिस्त्रिः कनका स्त्रयोदशक्षयिकः। वर्णयुतिर्देश जाता ब्रूहि सग्वे कनकपरिमाणम् ।। १८१ ।। सुग्मवर्णमिश्रसुवर्णानयनसूत्रम् - ज्येष्ठाल्पक्षयशोधितपक्वविशेषातरूपकैः प्राग्वत् । प्रक्षेपमतः कुर्यादेवं बहुशोऽपि वा साध्यम् ॥ १८२ ।। पुनरपि युग्मवर्णमिश्नस्वर्णानचनसूत्रम् इष्टाधिकान्तरं चैव हीनेष्टान्तरमेव च । उभे ते स्थापयेयस्तं स्वर्ण प्रक्षेपतः फलम् ॥ १८३ ॥ 89 अत्रोद्देशकः । दशवर्णसुवर्ण यत् षोडशवर्णेन संयुतं पक्वम् । द्वादश चेत्कनकशतं द्विभेदकनके पृथक पृथग्ब्रूहि ।। १८४ ॥ बहुसुवर्णानयनसूत्रम्- व्येक पदानां क्रमशः स्वर्णानीष्टानि कल्पयेच्छेषम् । अव्यक्तकनकबिधिना प्रसाधयेत् प्राक्तनायेव ॥ १८५ ॥ | The reading in the Mss is तत्क्षय, which is obviously erroneous, 9