पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः अत्रोद्देशकः । वैश्याः स्वर्णशलाक(श्चिकीर्षवः स्वर्णवर्णज्ञाः । चक्रुः स्वर्णशलाका द्वादशवर्णं तदाद्यस्य || १९३|| चतुरुत्तरदशवर्णं षोडशवर्णं तृतीयस्थ | कनकं चास्ति प्रथमस्यैकोनं च द्वितीयस्य || १९४ ॥ अर्धार्धन्यूनमथ तृतीयपुरुषस्य पाहोनम् । परवर्णादारभ्य प्रथ॑मस्यैकान्त्यमेव च द्यन्त्यम् ॥ १९५ ॥ त्र्यन्त्यं तृतीयवणिजः सर्वेशलाकास्तु माषमिताः । शुद्धं कनकं किं स्यात् प्रपूरणी का पृथक् पृथक् त्वं मे । आचक्ष्व गणक शीघ्रं सुवर्णगणितं हि यदि वेत्सि॥१९६३॥ विनिमयवर्णसुवर्णानयनसूत्रम् - क्रयगुणसुवर्णविनिमयवर्णेष्टघ्नान्तरं पुनः स्थाप्यम्। व्यस्तं भवति हि विनिमयवर्णान्तरहृत्फलं कनक ॥ १९७३ ॥ अत्रोद्देशकः । पोडशवर्णं कनकं सप्तशतं विनिमयं कृतं लभते । 91 द्वादशदशवर्णाभ्यां साष्टसह्स्स्रं तु कनकं किम् ॥ १९८३ ॥ बहपदविनिमयसुवर्णकरणसूत्रम्- वर्णन्नकनक मिष्ट स्वर्णेनाप्तं दृढक्षयो भवति । प्राग्वत्प्रसाध्य लब्धं विनिमयबहुपदसुवर्णानाम् ॥ १९९२३ ।। अत्रोद्देशकः । वर्णचतुर्दशकनकं शतत्रयं विनिमयं प्रकुर्वन्तः। वर्णैर्द्वादशदशवसुनगैश्च शतपचकं स्वर्णम् । 9-A