पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रक व्यवहारः अत्रोद्देशकः । पनसानि द्वात्रिंशन्नीत्वा योजनमसौ दलोनाष्टौ । गृह्णात्यन्तर्भाटकमधे भग्नोऽस्य कि देयम् ॥ २२७ ॥ द्वितीयतृतीययोजनानयनस्य सूत्रम् – - भर माटकसंवर्गो द्वितीय भूतिकृतिविवर्जितश्छेदः । तद्धृत्यन्तरभरगतिहतेर्गतिः स्याद् द्वितीयस्य || २२८ ॥ अत्रोद्देशकः । पनसानि चतुर्विंशतिमा नीत्वा पञ्चयोजनानि नरः । लभते तद्भृतिमिह नव षड्भृतिवियुते द्वितीयनृगतिः का॥ २२९॥ बहुपद भाटकानयनस्य सूत्रम्- सन्निहित रहतेषु प्रागुत्तर मिश्रितेषु मार्गेषु । व्यावृत्तनरगुणेषु प्रक्षेपकसाधित मूल्यम् || २३० ॥ अत्रोद्देशकः । शिबिकान्त पुरुषाविंशतिरथ योजनद्वयं तेषाम् । वृत्तिनाराणां विंशत्यधिकं च सप्तशतम् || २३१ ॥ कोशद्वये निवृत्तौ द्वावुभयोः क्रोशयोस्त्रयश्चान्ये । पञ्च नरः शेषार्धाव्यावृत्ताः का भृतिस्तेषाम् ॥ २३२ ॥ इष्टगुणितपोटलका नयनसूत्रम् - सैकगुणा स्वस्वेष्टं हित्वान्ये न्यध्नशेषमितिः । अपवर्त्य योज्य मूलं(विष्णोः) कृत्वा व्येकेन मूलेन ||२३३॥ पूर्वापवर्तराशीन् हत्वा पूर्वापवर्तराशियुतेः । पृथगेव पृथक् त्यक्त्वा हस्तगताः स्वधनसङ्ख्याः स्युः ॥२३४॥ ताः स्वस्वं हित्वैव त्वशेषयोगं पृथक् पृथक् स्थाप्य । स्वगुणन्नाः स्वकरगतैरूनाः पोटलकसङ्ख्याः स्युः || २३५|| 1 Bouits पद here 95