पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः अत्रोद्देशकः । मार्गे त्रिभिर्वाणिग्भिः पोष्टलकं दृष्टमाह तत्रैकः । पोट्टलकमिदं प्राप्य द्विगुणधनोऽहं भविष्यामि ॥ २३६ ॥ हस्तगताभ्यां 'युवयोोस्त्रिगुणधनोऽहं द्वितीय आहेत । पञ्चगुणोऽहं त्वपर: पोटलहस्तस्थमानं किम् ॥ २३७॥ सर्वतुल्यगुणकपोट्टलकानयनहस्तगतान वनसूत्रम्-- व्येकपदघ्नव्येकगुणेष्टांशवधोनितांशयुतिगुणघात: ! हस्तगताः स्युर्भवति हि पूर्ववदिष्टांशभाजितं पोट्टलकम् ।। २३८ ।। अत्रोद्देशकः । वैश्यैः पञ्चभिरेकं पोट्टलकं दृष्टमाह चैकैकः । पोट्टलकषष्ठसप्तमनवमाष्टमदशमभागमाप्त्वैव ॥ २३९ ॥ स्वस्वकरस्थेन सह त्रिगुणं त्रिगुणं च शेषाणाम् । गणक त्वं में शीघ्रं वद हस्तगतं च पोट्टलकम् ॥ २४० ॥ इष्टांशेष्टगुणपोट्टेलकानयनसूत्र- इष्टगुणघ्नान्यांशाः सेष्टांशाः सैकनिजगुणहता युक्ताः । ड्यूनपदघ्नेष्टांशन्यूनाः सैकेष्टगुणहता हस्तगताः ||२४१ ।। अत्रोद्देशकः । 96 द्वाभ्यां पथि पथिकाभ्यां पोट्टलकं दृष्टमाह तत्रैकः । अस्यार्धं सम्प्राप्य द्विगुणधनोऽहं भविष्यामि ॥ २४२ ॥ अपरस्त्र्यंशद्वितयं त्रिगुणधनस्त्वत्करस्थधनात् । मत्करधनेन सहितं हस्तगतं किं च पोट्टलकम् || २४३ ॥ दृष्टं पथि पथिकाभ्यां पोट्टलकं तद्गृहीत्वा च । द्विगुणमभूदाद्यस्तु स्वकरस्थधनेन चान्यस्य ||