मिश्रकव्यवहारः. अधिकहीनोत्तरसङ्कलितधने आद्युत्तरानयनसूत्रम्- गच्छविभक्ते गणिते रूपोनपदार्धगुणितचयहीने । आदिः पदहृतवित्तं चाद्यूनं व्येक पददलहृतः प्रचयः ।। २९२ ।। अत्रोद्देशकः । चत्वारिंशद्गणितं गच्छः पञ्च त्रयः प्रचयः, ! न ज्ञायतेऽधुनादिः प्रभवो हिः प्रचयमाचक्ष्व || २९३ ॥ श्रेढीसङ्कलितगच्छानयनसूत्रम्--- 103 आदिविहीनो लाभः प्रचयाहृतस्स एवरूपतः । गच्छो लाभेन गुणो गच्छतिधनं च सम्भवति ॥ २९४ ॥ अत्रोद्देशकः । त्रीण्युत्तरमादिर्हे वनितामिश्रोत्पलानि भक्तानि । एकस्या गोष्टौ कति वनिताः कति च कुसुमानि ॥ २९५ ॥ वर्गसङ्कालतानयनसूत्रम् सैकेष्टकृतिर्विघ्ना सैकेष्टोनेष्टइलगुणिता । कृतिघनचितिसङ्घातस्त्रिकभक्तो वर्गसङ्कलितम् ।। २९६ ॥ अत्रोद्देशकः । अष्टाष्टादश विंशतिषष्ट्येकाशीतिषट्कृतीनां च । कृतिघनचितिसङ्कलितं वर्गचितिं चाशु मे कथय ॥ २९७ ॥ इष्टद्युत्तर पदवर्गसङ्कलितधनानयनसूत्रम्- द्विगुणैकोनपदोत्तरकृतिहतिषष्ठांशमुखचवहतयुनिः । व्येक पदना मुखकृतिसहिंता पदताडितष्टकृतिचितिका ॥ २९८ ॥
पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१३७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति