पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः अत्रोद्देशकः । आदिष्षट् पञ्च चयः पदमप्यष्टादशाथ सन्दृष्टम् । एकाद्येकोत्तरचितिसङ्कलितं किं पदाष्टकस्य ॥ ३०६३ ।। 105 चतुस्तङ्कलितानयनसूत्रम् – सैक पदार्धपदाहतिरश्वैर्निहता पदोनिता ज्याप्ता । सैकपदप्ना चितिचितिचितिकृतिघनसंयुतिर्भवति ॥ ३०७३॥ अत्रोद्देशकः । सप्ताष्टनवदशानां षोडशपञ्चाशदेकषष्टीनाम् । ब्रूहि चतुःसङ्कलितं सूत्राणि टथक् ष्टथक् कृत्वा || ३०८३ ॥ सङ्घातसङ्कलितानयनसूत्रम् गच्छस्त्रिरूपसहितो गच्छचतुर्भागताडितस्तैकः । सपदपदकृतिविनिघ्नो भवति हि सङ्घातसङ्कलितम् ॥ ३०९ ।। अत्रोद्देशकः । सप्तकृतेः षषष्ट्यास्त्रयोदशानां चतुर्दशानां च । पश्चाग्रविंशतीनां किं स्यात् सङ्घातसङ्कलिनम् ॥ ३१०॥ भिन्नगुणसङ्कलितानयनसूत्रम् – समदलविषमवरूपं गुणगुणितं वर्गताडिनं द्विष्ठम् । अंशाप्तं व्येकं फलमाद्यन्त्रघ्नं गुणोनरूपहृतम् ॥ ३११३॥ अत्रोद्देशकः । दीनारार्ध पञ्चसु नगरेषु चयस्त्रिभागोऽ ऽभूत् । आदिस्त्रचंशः पादो गुणोत्तरं सप्त भिन्नगुणचितिका । 10