पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

108 गणितसारसङ्ग्रहः विषमबाणैस्तूणीरबाणपरिधिकरणसूत्रम्— परिणाहस्त्रिभिरधिको दलिनो वर्गीकृतस्त्रिभिर्भक्तः । सैकश्शरास्तू परिधेरानथने तत्र विपरीतम् ॥ ३२८३ ॥ अत्रोद्देशकः नव परिधिस्तु शराणां सङ्ख्या न ज्ञायते पुनस्तेषाम् । त्र्युत्तरदशबाणास्तत्परिणाहशरांश्च कथय मे गणक || ३२९३ ।। श्रेढीबद्धे इष्टकानयनसूत्रम् - तरवर्गो रूपोनस्त्रिभिर्विभक्तस्तरेण सङ्गणितः | तरसङ्कलिते स्वेष्टप्रताडिते मिश्रतः सारम् ॥ ३३०३॥ अत्रोद्देशकः । पञ्चत रैकेनाग्रं व्यवघटिता गणितविन्मिश्रे । समचतुरश्रश्रेढी कतीष्टकास्स्युर्ममाचक्ष्व || ३३१३॥ नन्द्यावर्ताकारं चतुस्तराः षष्टिसमघटिताः । सर्वेष्टकाः कति स्युः श्रेढीबद्धं ममाचक्ष्व || ३३२३ || छन्दश्शास्त्रोक्तषट्प्रत्ययानां सूत्राणि -- समदलविषमस्वरूपं द्विगुणं वर्गीकृतं च पदमङ्ख्या । सङ्ख्या विषमा सैका दलतो गुरुरेव समदलतः || ३३३३ ॥ स्यालधुरेवं क्रमशः प्रस्तारोऽयं विनिर्दिष्टः । नष्टाङ्कार्धे लघुरथ तत्सैकदले गुरुः पुनः पुनः स्थानम् ॥ ३३४३ ॥ रूपाद्दिगुणोत्तरतस्तद्दिष्टे लाङ्कसंयुतिः सैका । एकाद्येकोत्तरतः पदैमूर्ध्वाधर्यतः क्रमोत्क्रमशः ॥ ३३५३ ॥