पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः क्षेत्रगणितव्यवहारः. सिद्धेभ्यो निष्ठितार्थेभ्यो वरिष्ठेभ्यः कृतादरः । अभिप्रेतार्थसिद्धयर्थं नमस्कुर्वे पुनः पुनः ॥ १ ॥ इतः परं क्षेत्रगणितुं नाम षष्ठगणितमुदाहरिष्यामः । तद्यथा- क्षेत्रं जिनप्रणीतं फलाश्रयायावहारिकं सूक्ष्ममिति । भेदाद् द्विधा विचिन्त्य व्यवहारं स्पष्टमेतदभिधास्ये ॥ २ ॥ त्रिभुज चतुर्भुजवृत्तक्षेत्राणि स्वस्वभेदभिन्नानि । गणितार्णवपारगतैराचा राचार्यैस्सम्यगुक्तानि ॥ ३ ॥ त्रिभुजं त्रिधा विभिन्नं चतुर्भुजं पञ्चधाष्टधा वृत्तम् । अवशेषक्षेत्राणि ह्येतेषां भेदभिन्नानि ॥ ४ ॥ त्रिभुजं तु समं द्विसमं विषमं चतुरश्रमपि समं भवति । द्विद्विसमं द्विसमं स्यात्रिसमं विषमं बुधाः प्राहुः ॥ ५ ॥ समदृत्तमर्धवृत्तं चायतवृत्तं च कम्बुकावृत्तम् । निम्नोन्नतं च वृत्तं बहिरन्तश्रकवालवृत्तं च ॥ ६ ॥ व्यावहारिकगणितम् । त्रिभुज चतुर्भुजक्षेत्रफलानयनसूत्रम्- त्रिभुजचतुर्भुजबाहुप्रतिबाहुसमासदलहतं गणितम् । नेमेर्भुजयुत्यधं व्यासगुणं तत्फलार्धमिह बालेन्दोः ॥ ७ ॥ अत्रोद्देशकः । त्रिभुजक्षेत्रस्याष्टौ बाहुप्रतिबाहुभूमयो दण्डाः । तड्यावहारिकफलं गणयित्वाचक्ष्व मे शीघ्रम् ॥ ८ ॥