पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणितव्यवहारः. द्विसमत्रिभुजक्षेत्रस्यायामः सप्ततप्ततिर्दण्डाः । विस्तारो द्वाविंशतिरथ हस्ताभ्यां च सम्मिश्राः ॥ ९ ॥ त्रिभुनक्षेत्रस्य भुजस्त्रयोदश प्रतिभुजस्य पञ्चदश । भूमिश्रतुर्दशास्य हि दण्डा विषमस्य किं गणितम् ॥ १० ॥ गजदन्तक्षेत्रस्य च पृष्ठेऽष्टाशीतिरत्र सन्दृष्टाः । द्वासप्ततिरुदरे तन्मूलेऽपि त्रिंशदिह' दण्डाः ॥ ११ ॥ क्षेत्रस्य दण्डषष्टिर्बोहुप्रतिवाहुकस्य गणयित्वा । समचतुरश्रस्य त्वं कथय सरखे गणितफलमाशु ॥ १२ ॥ आयतं चतुरस्य व्यायामः सैकषष्टिरिह दण्डाः । विस्तारो द्वात्रिंशद्व्यवहारं गणितमाचक्ष्व ॥ १३ ॥ दण्डास्तु सप्तषष्टिद्विसमचतुर्बाहुकस्य चायामः । व्यासश्चाष्टत्रिंशत् क्षेत्रस्यास्य त्रयस्त्रिंशत् ॥ १४ ॥ क्षेत्रस्याष्टोत्तरशतदण्डा बाहुये मुखु चाष्टौ । हस्तैस्त्रिभिर्युतास्तत्रिसमचतुर्बाहुकस्य वद् गणक ॥ १५ ॥ विषमक्षेत्रस्याष्टत्रिंशद्दण्डाः क्षितिर्मुखे द्वात्रिंशत् । पञ्चाशत्प्रति बाहुः षष्टिस्त्वन्यः किमस्य चतुर ॥ १६ ॥ परिघोदरस्तु दण्डास्त्रि राष्टष्टं शतत्रयं दृष्टम् । नवपञ्चगुणो व्यासो नेमिक्षेत्रस्य किं गणितम् ॥ १७ ॥ हस्तौ द्वौ विष्कम्भः पृष्ठेऽष्टषष्टिरिह च सन्दृष्टाः । उदरे तु द्वात्रिंशद्वान्दोः किं फलं कथय ॥ १८ ॥ 111 The reading in both Band и1s त्रिंशतिः ; but as this is erroneous it is aorrected into त्रिशदिह so as to weet the requirements of the metre also. = Breads देक for प्रति.