पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

114 गणितसारसङ्ग्रहः यवाकारमर्दलाकारपणवाकारवज्ञाकाराणां फलानयनसूत्रम्- क्षेत्राणां व्यावहारिक यवमुरजपणवशक्रायुधसंस्थानप्रतिष्ठितानां तु | मुरवमध्यसमासार्धं त्वायामगुणं फलं भवति ॥ ३२ ॥ अत्रोद्देशकः । यवसंस्थानक्षेत्रस्यायामोऽशीतिरस्य विष्कम्भः । मध्यश्चत्वारिंशत्फलं भवेत्किं ममाचक्ष्व ॥ ३३ ॥ आयामोऽशीतिरयं दण्डा मुखमस्य विंशतिर्मध्ये | चत्वारिंशत्क्षेत्रे मृदङ्गसंस्थानके ब्रूहि ॥ ३४ ॥ पणवाकारक्षेत्रस्यायामः सप्तसप्ततिर्दण्डाः । मुखयोर्विस्तारोऽष्टौ मध्ये दण्डास्तु चत्वारः ॥ ३५ ॥ वज्जाकृतेस्तथास्य क्षेत्रस्य षडग्रनवतिरायामः । मध्ये सूचिर्मुरवयोस्त्रयोदश त्र्यंशसंयुता दण्डाः || ३६ ॥ उभयनिषेधादिक्षेत्रफलानयनसूत्रम् – व्यासात्त्वायामगुणाद्वि'कम्भार्धघ्नदीर्घमुत्सृज्य । त्वं वद निषेधमुभ योस्तदर्धपरिहीणमेकस्य || ३७ ॥ अत्रोद्देशकः । आयामः षट्त्रिंशद्विस्तारोऽष्टादशैव दण्डास्तु । उभयनिषेधे किं फलमेकनिषेधे च किं गणितम् ॥ ३८ ॥ बहुविधवजाकाराणां क्षेत्राणां व्यावहारिकफलानयनसूत्रम्- रज्ज्वर्धकृतित्र्यंशो बाहुविभक्तो निरेकबाहुगुणः । सर्वेषामभ्रवता॑ फलं हि बिम्बान्तरे चतुर्थाशः ॥ ३९ ॥