पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणितव्यवहारः. वृत्तक्षेत्रत्रयस्यान्योऽन्यस्पर्शन जानस्यान्तररास्थित क्षेत्रस्य सूक्ष्मफलान्- यनसूत्रम् - विष्कम्भमानसमकत्रिभुजक्षेत्रस्थ सूक्ष्मफलम् । वृत्तफलार्धविहीनं फलमन्तरजं त्रयाणां स्यात् || ८४३ ॥ अत्रोद्देशकः । विष्कम्भचतुष्काणां, वृत्तक्षेत्रत्रयाणां च । अन्योऽन्यत्वष्टानामन्तरजक्षेत्रं सूक्ष्मगणितं किम् ॥ ८१३ ॥ षडश्रक्षेत्रस्त्र कर्णावलम्बक सूक्ष्मफलानधनसूत्रम्- भुजभुजकृतिकृतिवर्गा द्वित्रित्रिगुणा यथाक्रमेणैव । श्रुत्यवलम्बक कृतिधनकृतयश्च षडश्रके क्षेत्रे ॥ ८३३ ॥ अत्रोद्देशकः । 121 मुजषक्षेत्रे द्वौ द्वौ दण्डौ प्रतिभुजं स्वाताम् । अस्मिन् श्रुत्यवलम्बकसूक्ष्मफलानां च वर्गा के || ८७ ३ ॥ वर्ग स्वरूपकरणि राशीनां युतितङ्ख्यानयनस्य च तेषां वर्गस्वरूप - करणिराशीनां यथाक्रमेण परस्परवियुतितः शेषसङ्ख्यानयनस्य सूत्रम् केनाप्यपवर्तितफलपदयोग वियोगकृतिहताच्छेदात् । मूलं पदयुतिवियुती राशीनां विद्धि करणिगणितमिदम् ॥ ८८३ अत्रोद्देशकः षोडश षट्त्रिंशच्छत करणीनां वर्गमूल पिण्डं मे । अथ चैतत्पदशेषं कथय सखे गणिततच्वज्ञ ॥ ८९३ ॥ दात सूक्ष्मगणितं समाप्तम् ॥ 11