पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रगणित व्यवहारः. आयतचतुरश्राणां क्षेत्राणां विषनबाहुकानां च । कर्णोऽत्र पश्चषष्टिः क्षेत्राण्याचक्ष्व कानि स्युः || १२४३ ।। इष्टजन्यायतचतुरश्रक्षेत्ररय रज्जुसङ्ख्यां च कर्णसङ्ख्यां च ज्ञात्वा तज्जन्यायतचतुरश्रक्षेत्रस्य भुजकोटिसङ्ख्यानयनमूत्रम् कर्णकृतौ द्विगुणायां रज्ज्वर्धकृतिं विशोग्य तन्मूलम् । रज्ज्वर्षे सङ्क्रमणीकृते भुजा कोटिरपि भवति ।। १२१३ ॥ अत्रोद्देशकः । परिषः स चतुस्त्रिशत् कर्जश्चात्र त्रयोदशो दृष्टः । जन्यक्षेत्रस्यास्य नगणय्याचक्ष्व कोटिभुजौ ॥ १२६३ ॥ क्षेत्रफलं कर्णत तड़यों व ज्ञात्वा भुजकोटिसङ्ख्यानयनसूत्रम्- कर्णकृतौ द्विगुणीकृतगणितं हीनाधिकं कृत्वा । मूलं कोटिभुजौ हि ज्येष्ठे इवेन सङ्क्रमणे || १२७३॥ अत्रोद्देशकः । 127 आयतचतुरश्रस्य हि गणितं पष्टिस्त्रयोदशास्यापि । कर्णस्तु कोटिभुजयोः परिमाणे श्रोतुमिच्छामि ।। १२८ ॥ क्षेत्रफलसङ्ख्यां रज्जुतङयां व ज्ञात्वा आयनचतुरश्रस्य भुज- कोटिसङ्ख्यानयनसूत्रम्— रज्वर्धवर्गराशेर्गणितं चतुराहतं विशोध्याथ | मूलन हि रज्ज्वर्धे सङ्क्रमणे तति भुजाकोठी ॥ १२९॥ अत्रोद्देशकः । सप्ततिशतं तु रज्जुः पथशतोत्तरसहस्त्रमिष्टधनम् । जन्यायतचतुरश्रे कॉठिभुजौ मे समाचक्ष्व ॥ १३०३॥