क्षेत्रगणितव्यवहारः. व्यासाधिगमोनस्स च चतुर्गुणिताधिगमेन सङ्गणितः । ु यत्तस्य वर्गमूलं ज्यारूपं निर्दिशेत्प्राज्ञः || २२५ ॥ अत्रोद्देशकः । व्यासो दश वृत्तस्य द्वाम्यां छिन्नो हि रूपाभ्याम् । छिन्नस्य ज्या का स्यात्प्रगणथ्याचक्ष्व त्रं गणक || २२६३ ॥ समवृत्तक्षेत्र व्यासस्य च मौर्व्याश्र सङ्ख्यां ज्ञात्वा बाणसङ्ख्या- नयनसूत्रम्- व्यासज्यारूपकयोवर्ग विशेषस्य भवति यन्मूलम् । तद्विष्कम्भाच्छोभ्यं शेषार्धमिषुं विजानीयात् ।। २२७ ॥ अत्रोद्देशकः । 141 दश वृत्तस्य विष्कम्भः शिञ्जिन्यभ्यन्तरे सखे । दृष्टाष्टौ हि पुनस्तस्याः कः स्यादधिगमो वद || २२८ ॥ ज्यासङ्ख्यां च बाणसङ्ख्यां च ज्ञात्वा समवृत्तक्षेत्रस्य मध्यव्यास. सङ्ख्यानयनसूत्रम्—— भक्तवतुर्गुणेन च शरेण गुणवर्ग राशिरिषुसहितः । समवृत्तमध्यमस्थितविष्कम्भोऽयं विनिर्दिष्टः ॥ २२९॥ अत्रोद्देशकः । कस्यापि च समवृत्तक्षेत्रस्याभ्यन्तराधिगमनं द्वे । ज्या दृष्टाष्टौ दण्डा मध्यव्यासो भवेत्कोऽत्र || २३०३ ॥ समवृत्तद्वयसंयोगे एका मत्स्याकृतिर्भवति । तन्मत्स्यस्य मुरखपुच्छ. विनिर्गतरेखा कर्तव्या । तथा रेखया अन्योन्याभिमुखधनुर्द्दयाकृतिर्भ-
पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१७५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति