पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रह:- अस्मिन् रवातगणिते कर्मान्तिकसंज्ञफलं च औण्ड्रसंज्ञफलं च ज्ञात्वा ताभ्यां कर्मान्तिकौण्ड्रसंज्ञफलाभ्यां सूक्ष्मखातफलानयनसूत्रम्- बाह्याभ्यन्तरसंस्थिततत्तत्क्षेत्रस्थबाहुकोटिभुवः । 144 स्वप्रतिबाहुसमेता भक्तास्तत्क्षेत्रगणनयान्योन्यम् ॥ ९ ॥ गुणिताश्च वेधगुणिताः कर्मान्तिकसंज्ञगणितं स्यात् । तद्वाह्यान्तरसंस्थिततत्तत्क्षेत्रे फलं समानीय ॥ १० ॥ संयोज्य सङ्ख्ययाप्तं क्षेत्राणां वेधगुणितं च ।, औण्ड्रफलं तत्फलयोर्विशेषकस्य त्रिभागेन || संयुक्तं कर्मान्तिकफलमेव हि भवति सूक्ष्मफलन् ॥ ११३॥ अत्रोद्देशकः । समचतुरश्रा वापी विंशतिरुपरीह षोडशैव तले । वेधो नव किं गणितं गणितविदाचक्ष्व मे शीघ्रम्॥ १२॥ वापी समत्रिबाहुर्विंशतिरुपरीह षोडशैव तले । वेधो नव किं गणितं कर्मान्तिकमौण्ड्मपि च सूक्ष्मफलम् ॥ १३३ ॥ समवृत्तासौ वापी विंशतिरुपरीह षोडशैव तले । वेधो द्वादश दण्डाः किं स्यात्कर्मान्तिकौण्ड्रसूक्ष्मफलम् ॥ १४॥ आयतचतुरश्रस्य त्वायाम षष्टिरेव विस्तारः । द्वादश मुखे तलेऽर्धं वेधोऽष्टौ किं फलं भवति ॥ १९॥ नवतिरशीतिः सप्ततिरायामश्चोर्ध्वमभ्यमूलेषु । विस्तारो द्वात्रिंशत् षोडश दश तप्त वेधोऽयम् || १६३॥ व्यासः षष्टिर्वदने मध्ये त्रिंशत्तले तु पञ्चदश | समवृत्तस्य च वेधः षोडश किं तस्य गणितफलम् ॥ १७॥