पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

154 गणितसारसङ्ग्रहः. विषुवच्छायायुक्ते देशे इष्टच्छायां ज्ञात्वा कालानयनस्य सूत्रम् - - शङ्कुयुतेष्टच्छाया मध्यच्छायोनिता द्विगुणा । तदवाप्ता शङ्कुमितिः पूर्वापरयोर्दिनांशः स्यात् || १५ || अत्रोद्देशकः । द्वादशाङ्गुलशङ्कोर्छुदलच्छायाङ्गुलद्वयी । इष्टच्छायाहाङ्गुलिका दिनांश: को गतः स्थितः । त्र्यंशो दिनांशो घटिकाः कास्त्रिशन्नाडिकं दिनम् ॥ १७ ॥ इष्टनाडिकानां छायानयनसूत्रम्- द्विगुणितदिनभागहृता शङ्कुमितिः शङ्कुमानोना । युदलच्छायायुक्ता छाया तत्स्वेष्टकालिका भवति ॥ १८ ॥ अछोद्देशकः । दशाङ्गुच्छालद्वथी । दशानां घटिकानां भी का छिशन्नाडिकं दिनम् ॥ १९ ॥ पादच्छायालक्षणे पुरुषस्य पादप्रमाणस्य परिभाषासूत्रम्- पुरुषोन्नतिसप्तांशस्तत्पुरुषाङ्ग्रेस्तु दैर्ध्वं स्यात् । यद्येवं चेत्पुरुषः स भाग्यवानमा स्पष्टा ॥ २० ॥ आरूढच्छ|यायाः सङ्ख्यानयनसूत्रम् - नृच्छायाहतशङ्कुभितिस्तम्भान्तरोनितो भक्तः । नृच्छाययैव लब्धं शङ्कोभित्त्याश्रितच्छाया ॥ २१ ॥ अछोद्देशकः । विंशतिहस्तः स्तम्भो भितिस्तम्भान्तरं करा अष्टौ । पुरुषच्छाया द्विन्ना भित्तिगता सम्ममा कि स्यात् ॥ २२ ॥ 1 Not found in any of the MSS.