पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः. शडप्रमाणमत्रापि द्वादशाङ्गुलकं गते । ज्ञात्वोदाहरणे सम्याग्विद्यात्सूत्रार्थपद्धतिम् || ४७ ॥ पुरुषस्य पादच्छायां च तत्पादप्रमाणेन वृक्षच्छायां च ज्ञात्वा वृक्षो- न्नतेः सङ्ख्वानयनस्य च, 'दृक्षोन्नतिसङ्ख्यां च पुरुषस्य पादच्छायायाः सङ्ख्यां च ज्ञात्वा तत्पादप्रमाणेनैव वृक्षच्छायायाः सङ्ख्यानयनस्य च सूत्रम्- 158 स्वच्छायया भक्तनिजेष्टवृक्षच्छाया पुनस्सप्तभिराहता सा । वृक्षोन्नतिः साद्रिहृता स्वपादच्छायाहता स्याद्रुम भैव नूनम् ॥ १८ ॥ अत्रोद्देशकः । आत्मच्छाया चतुःपादा वृक्षच्छाया शतं पदाम् । वृक्षोच्छ्रायः को भवेत्स्वपादमानेन तं वद ॥ ४९ ॥ वृक्षच्छायायाः सङ्ख्यानयनोदाहरणम् । आत्मच्छाया चतुःपादा पञ्चसप्ततिभिर्युतम् । शतं वृक्षोन्नतिर्वृक्षच्छाया स्थात्कियती तदा ॥ ५० ॥ पुरतो योजना न्यष्टौ गत्वा शैलो दशोदयः । स्थितः पुरे च गत्वान्यो योजनाशीतितस्ततः ॥ ११ ॥ तदग्रस्थाः प्रदृश्यन्ते दीपा रात्रौ पुरे स्थितैः । पुरमभ्यस्थ शैलस्वच्छाया पूर्वगमूलयुक् । अस्य वेधः को गणकाशु प्रकथ्यताम् ॥ ५२३॥ इति सारस गणितशास्त्रे महावीराचार्यस्य कृतौ छायाव्यव हारो नाम अष्टमः समाप्तः । समाप्तोऽयं सारसङ्ग्रहः ॥