संज्ञाधिकारः द्वि द्वे द्वावुभौ युगलंयुग्मं च लोचनं द्वयम् । दृष्टिर्नेत्राम्बकं द्वन्द्वमक्षिचक्षुर्नयं दृशौ ॥ १४ ॥ हरनेत्रं पुरं लोकं त्रै(त्रि )रलं भुवनत्रयम् । गुणो वह्निः शिखी ज्वलनः पावकश्च हुताशनः ॥ ५५ ॥ ● अम्बुधिर्विषधिवार्धिः पयोधिस्सागरो गृतिः । नलधिर्बन्ध चतुर्वेदः कषायस्सलिलाकरः ॥ १६ ॥ इषुर्बाणं शरं शस्त्रं भूतमिन्द्रियसायकम् । पञ्च बतानि विषयः करणीयस्तन्तुसायकः ॥ ५७ ॥ ऋतुजीवो रसो लेख्या द्रव्यश्च पटुकं खरन । कुमारवदनं वर्णं शिलीमुखपदानि च || ५८ ॥ शैलमदिर्भयं भूश्रो नगाचलमुनिर्गिरि : । अश्वाश्विपन्नगा द्वीपं धातुर्व्यसनमातृकम् ॥ १९ ॥ अष्टौं तनुर्गजः कर्म वसु वारणपुरम् । द्विरदं दन्ती दिग्दुरितं नागानीकं करी यथा ॥ ६० ।। नव नन्दं च रन्ध्रव पदार्थ लब्धकेशवौ । निधिरत्नं ग्रहाणां च दुर्गनाम च सङ्ख्यया ॥ ६१ ॥ आकाशं गगनं शून्यमम्बरं वं नभो वियत् । अनन्तमन्तरिक्षं च विष्णुपादं दिवि स्मरेत् ॥ ६२ ॥ अथ स्थाननामानि । एकं तु प्रथमस्थानं द्वितीयं दशसंज्ञिकम् । तृतीयं शतमित्याहुः चतुर्थं तु सहस्त्रकम् || ६३ ॥ पञ्चमं दशसाहस्रं षष्ठं स्यालक्षमेव च । सप्तमं दशलक्षं तु अष्टमं कोटिरुच्यते ॥ ६४ ॥ 7
पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/२०५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति