पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 गणितसारसङ्ग्रहः गणितशास्त्र प्रशंसा | लौकिके वैदिके वापि तथा सामायिकेऽपि यः । व्यापारात सर्वत्र सङ्ख्यानमुपयुज्यते ॥ ९ ॥ कामतन्त्रेऽर्थशास्त्रे च गान्धर्वे नाटकेऽपि वा । सूपशास्त्रे तथा' वैद्ये वास्तुविद्यादिवस्नुषु ॥ १० ॥ छन्दो ऽलङ्कारक्काव्येषु तर्कव्याकरणादिपु । कलागुणेषु सर्वेषु प्रस्तुतं गणितं पुरम् ॥ ११ ॥ सूर्यादिग्रहचारेषु ग्रहणे ग्रहसंयुतौ । त्रिचन्द्रवृत्तौ च सर्वाङ्गीकृतं हि तत् ॥ १२ ॥ द्वीपसागरशैलानां सङ्ख्याव्यासपरिक्षिपः । भवनव्यन्तरज्योतिर्लोककल्पाधिवासिनाम ॥ १३ ॥ नारकाणां च सर्वेषां श्रेणीबन्धेन्द्रकोत्कराः । प्रकीर्णक प्रमाणाद्या बुध्यन्ते गणितेन ते ॥ १४ ॥ प्राणिनां तत्र संस्थानमायुरष्टगुणादयः । यात्रांद्यास्संहिताद्याश्च सर्वे ते गणिताश्रयाः ॥ १५ ॥ बहुभिर्विप्रलापैः किं त्रैलोकये सचराचरे । यत्किञ्चिदस्तु' तत्सर्वं गणितेन विना न हि ॥ १६ ॥ दीर्थकृशयः कृतार्थेभ्यः पूज्येभ्यो जगदीश्वरैः । तेषां शिष्यप्राशयेभ्यः प्रसिद्धाद्गुरुपर्वतः ॥ १७ ॥ नलधेरिव रत्नानि पाषाणादिव काञ्चनम् | शुक्तेर्मुक्ताफलानीव सङ्ख्याज्ञान महोदधे ॥ १८ ॥ M स्यात् ; B चापि. ★ M and B दण्डा. 1K, M and B द्वे.

  • 3 B च.

● M and B पुरा. 8 M वसु. 3 K and M महा. o K "nd M "क्षिपा:. • K and P नव for ज्ञान.