पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिकर्मव्यवहारः शशाङ्केन्दुखैकेन्दुशून्यैकरूपं निधाय क्रमेणात्र राशिप्रमाणम् । हिमांश्वग्ररन्भैः प्रसन्ताड़ितेऽस्मिन् भवेत्कण्ठिका राजपुत्रस्य योग्या ॥ १७ ॥ इति परिकर्मविधौ प्रथमः प्रत्युत्पन्नः समाप्तः ॥ भागहारः । द्वितीये भागहारपरिकर्मणि करणसूत्रं यथा- 'विन्यस्य भाज्यमानं तस्याघस्स्थेन भागहारेण । सदृशापवर्तविधिना भागं कृत्वा फलं प्रवदेत् ॥ १८ ॥ अथ वा- प्रतिलोमपथेन मजेद्राज्यमधस्स्थेन भागहारेण । सदृशापवर्तन विधिर्यद्यस्ति विधाय तमपि तयोः ॥ १९ ॥ अत्रोद्देशकः । दीनाराष्टसहस्त्रं द्वानवतियुत शतेन संयुक्तम् । चतुरुत्तरष रषष्टिनरैर्भक्तं कोऽशो नुरेकस्य ॥ २० ॥ रूपाग्रसप्तविंशतिशतानि कनकानि यत्र भाज्यन्ते । सप्तत्रिशत्पुरुषैरेकस्यांशं ममाचक्ष्व ॥ २१ ॥ दीनारदशसहस्त्रं त्रिशतयुतं सप्तवर्ग सम्मिश्रम् | नवसप्तत्या पुरुषैर्भक्तं किं लब्धमेकस्य ॥ २२ ॥ 3 'अयुतं चत्वारिंशच्चतुस्सहस्त्रैकशतयुतं हेन्नाम् । नवसप्ततिवसतीनां दत्तं वित्तं किमेकस्याः ॥ २३ ॥ This stanz7 is not found in P This stanza is not found imP 11 + K स. ★ Band K हेमम्. 3M कोऽशो नुरेकस्व.