पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिकर्मव्यवहारः द्विस्थानप्रभृतीनां राशीनां सर्ववर्गसंयोगः । तेषां क्रमघातेन द्विगुणेन विमिश्रितो वर्गः ॥ ३० ॥ कृत्वान्त्यकृति हन्याच्छेषपदे द्विगुण मन्त्यमुत्सार्थ । शेषानुत्सार्यैवं करणीयो विधिरयं वर्गे ॥ ३१ ॥ अत्रोद्देशकः । एकादिनवान्तानां पञ्चदशानां द्विसङ्गणाष्टानाम् | व्रतयुगयोश्च रसाग्न्योश्शरनगयोर्वर्गमाचक्ष्व || ३२ || साष्टात्रिंशत्रिशती चतुस्सहस्त्रै कषष्टिषट्छतिका । द्विशती षट्पञ्चाशन्मिश्रा वर्गीकृता किं स्यात् ॥ ३३ ॥ लेख्यागुणेषुबाणद्रव्याणां शरगतित्रिसूर्याणाम् । गुणरत्नामिपुराणां वर्ग भण गणक यदि वेत्सि ॥ ३४ ॥ सप्ताशीतित्रिशतसहितं षट्सहस्रं पुनश्च पञ्चत्रिंशच्छतसमधिकं सप्तनिघ्नं सहस्त्रम् । 13 द्वाविंशत्या युतदशशतं वर्णित ब्रूहि त्वं मे गणक गुणवन्सङ्गुणथ्य प्रमाणम् ॥ ३५ ॥ इति परिकमवधौ तृतीयो वर्गस्समाप्तः ।। वर्गमूलम् । चतुर्थी वर्गमूलपरिकर्मणि करणसूत्रं यथा- अन्त्यौजादपहृतकृतिमूलेन द्विगुणितेन युग्महतौ । लब्धकृतिस्त्याज्यौजे द्विगुणदलं वर्गमूलफलम् ॥ ३६ ॥ ' ', Kand B राशिरेतत्कृतीनाम्.