पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

26 गणितसारसङ्ग्रहः मिनभागहारः | भिन्नभागहारे करणसूत्रं यथा अंशीकृत्यच्छेदं प्रगाणराशेस्ततः क्रिया गुणवत् | प्रमितफलेऽन्यहरध्ने विच्छिदि वा सकलवच्च भागहृतौ ॥ ८ ॥ अत्रादेशकः । हिङ्गोः पलार्धमौल्यं पर्णात्रिपादांशको संवद्यत्र | तत्रार्धे विक्रीणन पलमकं कि नरो लभते ॥ ९ ॥ अगरोः पलाष्टमेन त्रिगुणेन पणस्य विंशतित्र्यंशान् । उपलभने यत्र पुमानेकेन पलेन किं तत्र ॥ १० ॥ पणपश्चमैश्चतुर्भिर्नरवस्य पलसप्तमो व्यशीतिगुणः । संप्राप्यो यत्र स्यादेकेन पणेन किं तत्र ॥ ११ ॥ व्यादिरूप परिवृद्वियुजांऽशा यावदष्टपदमेकविहीनाः । हारकासत इह द्वितयाद्यैः किं फलं वद परेषु हृतेषु ॥ १२ ॥ इति भिन्नभागहारः | भिन्न वर्गवर्गमूलघनघनमूलानि ॥ भिन्नवर्ग वर्गमूलघनघनमूलेषु करणसूत्रं यथा- कृत्वाच्छेदांशकयोः कृतिकृतिमूले घनं च घनमूलम् । तच्छेदैरेंशहतौ वर्गादिफलं भवेद्भिन्ने |॥ १३ ॥ 'M भिन्नवर्गभिन्नवर्गमूलभिन्नघनतन्मूलेषु. ---