पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः. अंत्रोद्देशकः । पञ्चकसप्तनवानां दलितानां कथय गणक वर्ग त्वम् । षोडशविंशतिशतकद्विशतानां च त्रिभक्तानाम् ॥ १४ ॥ त्रिकादिरूपद्वयवृद्धयोंऽशा द्विकादिरूपोत्तरका हराम । पदं मतं द्वादश वर्गमेषां वदाशु मे त्वं गणकाग्रगण्य ।। १५ ।। पादनवांशकषोडशभागानां पन्चविंशतितमस्य | षत्रिंशद्भागस्य च कृतिमूलं गणक भण शीघ्रम् ।। १६ ।। भिन्न वर्गे राशयो वर्गिता ये तेषां मूलं सप्तशत्याच किं सात् । व्यष्टोनायाः पञ्चवर्गीद्धृताया ब्रूहि त्वं मे वर्गमूल प्रवीण ॥ १७ ॥ 27 अर्धत्रिभागपादाः पञ्चांशकषष्ठसतमाष्टांशाः । दृष्ट। नवमयैषां पृथक पृथगुब्रूहि गणक घनम् ॥ १८ ॥ त्रितयादिचतुश्चयकोशगणो द्विमुखचियोऽत्र हरप्रचयः दशकं पदमाशु तदीयघनं कथय प्रिय सूक्ष्ममते गणिते ॥ १९ ॥ शतकस्य पदविंशस्याष्टविभक्तस्य कथय घनमूलम् । 'नवयुतसप्तशतानां विंशानामष्टभक्तानाम् ॥ २० ॥ सप्तशतस्यापि सखे व्येकोनत्रिशकाष्टकाप्तस्य ॥ J