पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः. अत्रोद्देशकः । त्रिकपञ्चकत्रयोदशसप्तनवैकादशांशराशीनाम् । के हाराः फलमेकं प्रशांशो वा चतुर्गुणितः ॥ ९४ ॥ एकसूत्रोत्पन्नरूपांशहारैस्सूत्रान्तरोत्पन्नरूपांशहारैश्च फले रूपे छेदो- त्पत्तौ नष्टभागानंयने च सूत्रम् -- वाञ्छितसूत्रजहारा हुरा भवन्त्यन्यसूत्रजहरघ्नाः दृष्टांशैक्योनं फलमभीष्टनष्टांशमानं स्यात् ॥ ९५ ॥ अत्रोद्देशकः । परहतिदलनविधानात्रयोदश स्वपरसङ्गणविधानात् । भागाश्चत्वारोऽतः कति भागास्स्युः फले रूपे ॥ ९६ ॥

प्राक्स्वपरहतविधानात्सप्तस्वासन्नपरगुणार्धविधानात् । भागास्त्रितयश्चातः कति भागास्स्युः फळे रूप ॥ ९७ ॥ रूपांशका द्विपट्कद्वादशविंशतिहरा विनष्टोऽत्र | पञ्चमराशी रूपं सर्वसमासस्स राशिः कः ॥ ९८ ॥ इते भागजातिः । 39 प्रभागभागभागनात्योस्सूत्रम् - अंशानां सङ्गुणनं हाराणां च प्रभागजातौ स्यात् । गुणकारोंऽशकराशेहरिहरी भागभागजातिविधी ॥ ९९ ॥ प्रभागजातावुद्देशकः । रूपार्धं त्र्यंशार्धं त्र्यंशार्धा दलार्धपञ्चांशम् । पञ्चांशार्धत्र्यंशं तृतीयभागार्धसप्तांशम् || १०० ॥