पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

40 गणितसारसङ्ग्रहः दलदलदलसप्तांशं त्र्यंशत्र्यंशकदलार्धदलभागम् । अर्थत्र्यंशत्र्यंशकपञ्चांशं पञ्चमांशदलम् ॥ १०१ ॥ क्रीतं पणस्य दच्वा कोकनदं कुन्दकेतककुमुदम् । जिनचरणं प्रार्चयितुं प्रक्षिप्यैतान् फलं ब्रूहि ॥ १०२ ॥ रूपा व्यंशका पादसप्तनवांशकम् | द्वित्रिशा द्विसप्तांशं द्विसप्तांशनवांशकम् || १०३ ॥ दच्वा पणद्वयं कश्चिदानैषीनृतनं घृतम् । जिनालयस्य दीपार्थे शेषं कि कथय प्रिय ॥ १०४ ॥ त्र्यंशाद्विपञ्चमांशस्तृतीयभागात् त्रयादेशषडशः । पञ्चाष्टादशभागात् त्रयोदशांशोऽष्टमान्नवमः ॥ १०५ ॥ नवमाच्चतुस्त्रयोदशभागः पञ्चांशकात् त्रिपादार्धम् । सङ्क्षिप्याचक्ष्वैतान प्रभागजातौ श्रमोऽस्ति यदि || १०६ ।। अत्रैकाव्यक्तानयनसूत्रम्-- रूपं न्यस्याव्यक्त प्राग्विधिना यत्फलं भवत्तेन । भक्तं परिदृष्टफलं प्रभागजातौ तदज्ञातम् ॥ १०७ ॥ अत्रोद्देशकः । राशेः कुतश्चिदष्टांशस्त्र्यंशपादोऽर्धपञ्चमः । षष्ठत्रिपादपञ्चांशः किमव्यक्तं फलं दलम् ॥ १०८ ॥ अनेकाव्यक्तानयनसूत्रम् – कृत्वाज्ञातानिष्टान् फलसदृशी तद्युतिर्यथा भवति । विभजेत टथग्व्यक्तैरविदितराशिप्रमाणानि ॥ १०९ ॥