पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः. अत्रोद्देशकः । काश्चत्स्व कैरर्धतृतीयपादै- रंशोऽपरः पञ्चचतुर्नवांशैः । अन्यस्त्रिपञ्चांशनवांशका- र्युतो युती रूपमिहांशकाः के ॥ १२३ ॥ कोऽप्यंशस्स्वार्धपञ्चांशत्रिपादनवमैर्युतः । अर्ध प्रजायते शीघ्रं वदाव्यक्तप्रमां प्रिय ॥ १२४ ।। शेषेष्टस्थानाव्यक्तभागानयनसूत्रम्- - लब्धात्कल्पित मागासवर्णितैर्व्यक्त राशिभिर्भक्ताः । 'क्रमशो रूपविहीन स्म्वेष्टपदेष्वविदितांशास्स्युः ॥ १२५ ॥ इति भागानुबन्धजातिः । अथ भागापवाहजातौ सूत्रम्--- हरहतरूपेष्वंशानपनय भागापवाहजातिविधौ | 'गुणयाग्रांशच्छेदावंशोनच्छेदहाराभ्याम् || १२६ || रूपभागापवाह उद्देशकः ज्यष्टचतुर्दशकर्षाः पादार्घद्वादशांशषष्ठोनाः । सवनाय नरैर्दत्तासीर्थकृतां तनौ कि स्यात् ॥ १२७ ।। 6-A त्रिगुण पाददलत्रिहताष्टमै विरहिता नव सप्त नव क्रमात् । + B गुणवेद ग्रांशहरो रहितांशच्छेदहाराभ्याम् । 43