पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चमः मिश्रकव्यवहारः. प्राप्तानन्तचतुष्टयान् भगवतस्तीर्थस्य कर्तॄन् जिनान् सिद्धान् शुद्धगुणांस्त्रिलोकमहितानाचार्यवर्यानपि । सिद्धान्तार्णवपारगान् भवभृतां नेतॄनुपाध्यायकान् साधून् सर्वगुणाकरान् हितकरान् वन्दामहे श्रेयते ॥ १ ॥ इतः परं मिश्रगणितं नाम पञ्चमव्यवहारमुदाहरिष्यामः । तद्यथा- सङ्क्रमणसंज्ञाया विषमसङ्क्रमणसंज्ञायाश्च सूत्रम्-- युतिवियु तिदलनकरणं सङ्क्रमणं छेदलब्धयो राश्योः । सङ्क्रमणं विषममिदं प्राहुर्गणितार्णवान्तगताः ॥ २ ॥ अत्रोद्देशकः । द्वादशसङ्ख्याराशेर्द्वाभ्यां सङ्क्रमणमन्त्र किं भवति । तस्माद्राशेर्भक्तं विषमं वा किं तु सङ्क्रमणम् ॥ ३ ॥ पञ्चराशिकविधिः ॥ पञ्चराशिकस्वरूपवृद्ध्यानयन सूत्रम्- इच्छाराशिः स्वस्य हि कालेन गुणः प्रमाणफलगुणितः । कालप्रमाणभक्तो भवति तदिच्छाफलं गणिते ॥ ४ ॥ अत्रोद्देशक' । त्रिकपञ्चकषटूशते पञ्चाशत्षष्टिसप्ततिपुराणाः । लाभार्थतः प्रयुक्ताः का वृद्धिर्मासषस्य ॥ ५ ॥