दीपिकाख्यव्याख्योपेतम् । ९ " कोऽपि १.] 'धनुरधिज्यमधिकृतगुणं कथं विधीयताम् । अतस्तातस्य पितुः पण: 'धनुरधिज्यं करिष्यति तस्मै सीतां दास्यामि' इत्येवरूपा प्रतिज्ञा स्तवाय स्तुत्यै दारुणोऽयोग्यः अस्तुत्य इति । यद्वा अविसर्गपाठे हे तात, तव पणो दारुण इति •मानसोक्तिः । तातपणश्चेन्नाभविष्यत्तर्ह्यहं राममन्त्रिप्यामीति भावः । 'स्तवः स्तोत्रं ·स्तुतिर्नुति: ' इत्यमरः ॥ ९ ॥ रामो लक्ष्मणं प्रति-- आद्वीपात्परतोऽप्यमी नृपतयः सर्वे समभ्यागताः
- कन्यायाः कलधौतकोमलरुचेः कीर्तेश्च लाभः परः ।
नाकष्टं न च टङ्कितं न नमितं नोत्थापितं स्थानतः केनापीदमहो महजनुरिदं निर्वीरमुर्वीतलम् ॥ १० ॥ अथ रामः सीतासंशयमवधार्यात्मशक्ति ज्ञापयितुं लक्ष्मणमनुवदति- आद्वीपा- दिति । भो लक्ष्मण, अभी नृपतय आद्वीपात्समभ्यागताः । द्विर्गता आपो यस्मि- निति द्वीपं सागरान्तर्वर्ती देशः । तमतिव्याप्य परतो लङ्कादेरपि । यद्वा द्वीपो जम्बूद्वीपस्तमभिव्याप्य परतो द्वीपान्तरादपि तत्रापि सर्वे, न तु केचन, तेषां मध्ये केनापि इदं महद्धनुर्महतो रुद्रस्य धनुः । यद्वा महच्चेदं धनुश्च नाकृष्टम् । नन्वाकर्षणं तिष्टतु, न टाकतं टकारवन्न कृतम् । एतदपि तिष्ठतु, न नमितमपि । स्थानतोऽपि नोत्थापितम् | अहो महदाश्चर्यमिदमुर्वीतलं निर्वीरं वीर एवात्र कोऽपि नास्ति । यद्वा इदं धनुर्निर्वीरं निर्गताः पराजिता मानभङ्गात्पलायिता वा वीरा यस्मात्तदिति वाक्यान्तरेणेदंशब्दस्य पुनरुक्तिः । उर्वीतलमिति सप्तम्यर्थे प्रथमान्तपदमार्पम् । नन्वेतदाकर्पणादौ को लाभ इति चेत्तत्राह-कलधौतस्य दाहोत्तीर्णहेन इव कोमला रुचिर्यस्या एवंभूतायाः फन्याया लाभः । 'कलधौतं तप्तहेम स्यात्' इति धरणिः | 'कन्येयं. कलधौतकोमलरुचिः कीर्तेश्च लाभोऽपरः इति पाठेऽप्ययमेवार्थः । इयं कन्या सीता तल्लाभः इति सीतायाः पित्राद्यधीनतया कन्यात्वम् ॥ १० ॥ 3 लक्ष्मणो रामहृदयानन्दकंदाङ्करोद्भवाय निजप्रचण्ड- दोर्दण्डयोमहतीं प्रौढ़ नाटयति-- देव श्रीरघुनाथ किं बहुतया दासोऽस्मि ते लक्ष्मणो मेर्वादीनपि भूधरान्न गणये जीर्णः पिनाकः कियान् |