पृष्ठम्:Harinamamrita vyakaranam.pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२यः ३६४-३६५ ] कृष्णनामप्रकरणम् १५९ ३६४। अव्ययात् स्वादेर्महाहरः। * स्वरादि, चादि, वदादि-तद्धिताः, क्त्वा, मान्तश्च कृदव्ययम् । अव्ययाः खलु - (१) वाचकाः, (२) द्योतकाश्च ; तत्र वाचकाः स्वः, प्रातः इत्यादयः । एषां विशेषणस्य ब्रह्मत्वमव। सुन्दरं स्वः, सुन्दरे स्वः, सुन्दराणि स्वः इत्यादयः। ‘अत्रकवचनमेव' इति तस्यां भ्रमः, द्वित्वादीनामनिवार्यत्वात्'अव्ययादाप् सुपः’ इति , सुलोपे विरोधाच्च। द्योतकाः -च, वा, ह, अह, बै, तु, अपि इत्यादयः, प्रादयश्च ॥ ३६४ ॥ ३६५। चादयो निपातसंज्ञाः । एतेभ्यो ‘द्योत्यतया-अर्था विद्यन्ते एषाम्इत्यर्थत्वात् स्वाद्युत् पत्तिः, किन्तु प्रथमैकवचनमेव। वदादितद्धिताः-‘हरिवत् कृष्णी भवति' इत्यादयः ; क्त्वा, मान्तकृत् कृत्वा, कर्तु, कारं कारम् इत्यादि च। महाहरत्वात् ‘ओ औ पाण्डवेषु’ ( वि' प्र' २०८ ) न-अहो इत्यादि ज्ञेयम् ॥ ३६५॥ इति कृष्णनामप्रकरणम् । इति श्रीश्रीहरिनामामृताख्ये वैष्णवव्याकरणे नामविष्णुपद- प्रकरणं द्वितीयं समाप्तम् ।। २ ।। आरात् पृथक् ह्यस् श्वस् दिवा सायम् मनाक् ईषत् तूष्णीम् बहिस् निकषा समया स्वयम् नक्तम् मृषा अद्धा सामि इत्यादीनां ग्रहणम् । एषामिति एषां वाचकाव्ययानाम् । अत्रेति-अत्र वाचकाव्ययेषु , भ्रमे हेतुमाह द्वित्वादीनामिति । हेत्वन्तरमप्याह अव्ययादिति । द्योतका T इति-चदयः प्रादयश्च द्योतकाः । इत्यादय इति आदिशब्देन एव एवम् इव नूनम्

  • ‘सदृशं त्रिषु लिङ्गषु सर्वासु च विभक्तिषु ।

वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ।।'