पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/251

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२99 पालकाप्यभुनिविरचितो- [२ क्षुद्ररोगस्याने गोडिण्डमश्बलिण्डं च हस्तिलिण्डं तथैव च । पुराणघृतसंयुक्तो झेष धूपः प्रशस्यते ॥ तिलान्कृष्णान्समाहृत्य चेतानि मरिचानि च । ते शुद्धनिस्तुषे कृत्वा सकृदुष्णोदके पचेत् । यत्तत्र निश्रयेतैलं भेषजैस्तं विपाचयेत् । (हूिँ चातिविषां वैव वचां च कटुरोहिणीम् ॥ बस्तमूत्रं मेषमूत्रं गोमूत्रं चापि संहरेत् । ) तान्यौषधानि संयोज्य तैलं धीरो विपाचयेत् ॥ तेनास्यै दापयेन्नस्यमुन्मादात्परिमुच्यते । प्रकृतिं लभते क्षिप्रं प्राणश्चाप्युपचीयते ॥ एतद्वं सर्वेमारूयातमुन्मादस्य चिकित्सितम् ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थान उन्मादो नाम त्रपख्रिशोऽध्यापः ॥ ३३ ॥ अथ चतुत्रिंशोऽध्यायः ।। वक्ष्यतेsतः परं यत्नादपस्मारग्रहस्ततः । अपस्मारग्रहाक्रान्तो वेपमानो विचेतनः ॥ पक्षेण क्षितिमागम्य तिष्ठत्याविललोचन: । क्षणेन लभते संज्ञां भवेत्स्वस्थ इव द्विपः ॥ एतान्येव च लिङ्गानि कालवेलान्तरेष्वपि । करोति तस्याssगमने हीयमानो बलादिभिः ॥ नवग्रहविधानेन वर्षस्यान्तः प्रसाधयेत् । उन्मादृग्रहृवचापि परतो निष्प्रतिक्रियः । इति श्रीपालकाप्ये हस्त्पायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थानेsपस्मारो नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥ अथ पञ्चत्रिंशोऽध्यायः ।। अङ्गो हि राजा चम्पायाँ पालकाप्र्य स्म पृच्छति । वातकुण्डलिकाख्यस्य कथं रोगस्य संभवः ॥

  • धनुराकारमध्यस्थो भ्रष्टः पाठः कपुस्तकात् ॥