पुटमेतत् सुपुष्टितम्
१६
याजुषज्यौतिषं

अर्थाद्युगादितः १७ मिते पर्वगणे भांशमानं रूपं तत्रस्थं नक्षत्रं च जौ भवतीति । एवं वास्तवभांशमानतः पर्वसंख्या तत्र स्थितं नक्षत्रं च सुलभेन ज्ञायते । पूर्वेदितेनैव प्रकारेण डा.थिबो-विलिखिता पर्वनक्षत्रसूची- उत्पद्यते । इदं सर्वं हि प्रकारान्तरेण बार्हस्पत्येन साधु प्रतिपादितं परन्तु ‘जावाद्यंशै'रित्यादि श्लोकस्य तदीयं व्याख्यानं न साध्विति सुजनैर्निपुणं विलोक्यमित्यलं पल्लवितेन ॥ १७ ॥

इदानी पर्वभांशतः कलानयनमाह ।
कार्या भांशाष्टकास्थाने कला एकान्नविंशतिः ।
ऊनस्थाने द्विसप्ततिमावपेदिनसंयुताम् ॥ १९ ॥

 एकस्मिन् वर्षे अष्टकाश्चतस्रो भवन्ति (अश्नन्ति पितरोऽस्यामित्यष्टका)ताश्च वेदे प्र[१]सिद्धास्तेनाष्टकाशब्देन चत्वारि गृह्यन्ते । ततोऽस्य श्लोकस्य व्याख्यानम् । भांशानामष्टका भांशाष्टका तत्स्थाने एकोनविंशतिः कलाः कार्याः । तथा ऊनस्थाने हीनस्थानेऽर्थाद्धीनजातीयकाष्ठास्थाने गणक इनैः सूर्यैरर्थाद्द्वादशभिः संयुतां द्विसप्ततिमर्थाच्चतुरशीतिमावपेत् प्रक्षिपेत् । अत्रैतदुक्तं भवति । भांशानां प्रतिचतुष्कं एकविंशति: कलाश्चतुरशीतिः काष्ठाश्च कार्या इति ।

 अत्रोपपत्तिः । यदि युगचन्द्रनक्षत्रैः १८०९ युगकुदिनानि १८३० लभ्यन्ते तदैकेन चन्द्रनक्षत्रेण किं लब्धम् = = =1+ =एकं कुदिनं कुदिनशेषं च । तत्रैकस्य कुदिनस्य हरसमान्’



  1.  “हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका एकस्यां वा"-इति-आश्वलायनसूत्रम् । “माध्याः पूर्णमास्या उपरि द्व्यष्टका तस्यामष्टमी ज्येष्ठया संपद्यते तामेवाष्टकेत्याचक्षते” इति आपस्तम्बसूत्रम् ।
     “ऊर्ध्वमाग्रहायण्यास्तिस्रोऽष्टकाः । ऐन्द्री वैश्वदेवी प्राजापत्या पित्र्या"-इति पारस्करगृह्यसूत्रम् । “मध्या वर्षे च तुरीया शाकाष्टका"-इति तत्रैव ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Jyautisha_Vedangam.pdf/33&oldid=204539" इत्यस्माद् प्रतिप्राप्तम्