पुटपरिशीलयितुं काचित् समस्या अस्ति
i.3a-]
[2
अभिज्ञानशाकुन्तले

सुभगसलिलाबगाहाः पाटलिसंसर्गसुरभिवनवाताः ।
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ ३ ॥

नटी । । गायति ॥

खणचुम्बिआइँ भमरेहिं उअह सुउमारकसरासहा ।
अवअंसअन्ति सदअं सिरीसकुसुमाइँ पमआओ ॥ ४ ॥

सूत्रधारः । आयें । साधु गीतम् । असौ हेि रागापहृतचित्तवृत्तिरालिखित इव भाति सर्वतो रङ्गः । तत्कतमं प्रयोगमाश्रित्यैनमाराधयामः ।

नटी । णं पढमं जेव अज्जेण आणत्तं अहिण्णाणसउन्तलं णाम अउब्वं णाडअं अहिणीअदु ति ।

सूत्रधारः । आयें। सम्यगवबोधितो ऽस्मि । अस्मिन्क्षणे विस्मृतं खलु मयैतत् ।

कुतः ।

तवामि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेब दुःषन्तः सारङ्गेणातिरंहसा ॥ ५ ॥

॥ इति निष्क्रान्तौ ।

॥ प्रस्तावना ॥


 3॥ ततः प्रविशति रथारूढः सशरचापहस्तो मृगमनुसरत्राजा सूतश्च । सूतः । । राजानं मृगं चावलोक्य ॥ आयुष्मन् ।

कृष्णसारे ददचक्षुस्त्वयि चाषिज्यकार्मुके ।
मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् ॥ ६ ॥

राजा । सूत । दूरममुना सारङ्गेण वयमाकृष्टाः । सो ऽयमिदानीं

ग्रीबाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयान्नूयसा पूर्वकायम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/२२&oldid=181880" इत्यस्माद् प्रतिप्राप्तम्