शष्पैरर्धावलीद्वैः श्रमविवृतमुखभ्रशिभिः कीर्णवत्र्मा |
॥ सविस्मयम् ॥ कथमनुपतत एव मे प्रयत्रप्रेक्षणीयः संवृत्तः । सूतः । आयुष्मन् । उद्धातिनी भूमिरिति रश्मिसंयमनाद्रथस्य मन्दीभूतो वेगः । तेन मृग एष विप्रकृष्टः संवृत्तः । संमति समदेशवर्ती न ते दुरासदो भविष्यति । राजा । तेन हि विमुच्यन्तामभीशवः ।
सूतः । यथाज्ञापयत्यायुष्मान् । । रथवेगं रूपयित्वा ॥ आयुष्मन् । पश्य ।
मुक्तषु रश्मिषु निरायतपूर्वकायाः |
राजा । । सहर्षम् ॥ कथमतीत्य हरिणं हरयो वर्तन्ते । तथा हि
यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां |
नेपथ्ये । भो भो राजन् । आश्रममृगो ऽयं न हन्तव्यो न हन्तव्यः । सूतः । । आकण्र्यावलोक्य च ॥ आयुष्मन् । अस्य खलु ते बाणपातपथवर्तिनः कृष्णसारस्यान्तरायौ तपस्विनौ संवृत्तौ ।
राजा । । ससंभ्रमम् ॥ तेन हेि निगृह्यन्तामभीशवः । सूतः । यथाज्ञापयत्यायुष्मान् । ॥ इति तथा करोति ॥
॥ ततः प्रविशति सशिष्यो वैखानसः ।