पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
कुमारसम्भवे ।


 
क्रियतां कथमन्यमण्डनं
परलोकान्तरितस्य ते मया।
सममेव गतोऽस्यतर्कितां
गतिमङ्गो न च जौवितेन च ॥ २२ ॥
ऋजुतां नयतः स्मरामि ते
शरमुत्सङ्ग(८)[] निषत्रधन्वनः।
मधुना सह सस्मितां कथां
नयनोपान्त(९)[]विलोकितं च यत् ॥ २३ ॥

वियोजिता सति इत्यर्थः । सुप्सुपेति समासः । क्षणमात्रं जौविता किल इतीदं वचनौयं निन्दा मे मम व्यवस्खितं स्थिर- मभूत् ॥ २१ ॥

 क्रियतामिति । परलोकेऽन्तरितस्य व्यवहितस्य । मृतस्येथ्यर्थः । ते तव मया अन्त्यमण्डनं कथं केन प्रकारेण क्रियताम् । क्रियतामित्यत्र कामचारं लोट् बोध्यः । द्रुतदग्धस्य ते यथेच्छमण्डनमपि न र्सम्भवतीत्यर्थः। कुत:। अङ्गेन च जीवितेन च समं सहैव अतर्किताम् अविचारितां गतिं गतोऽसि । इह मृतशरीरमपि नास्ति कस्य मण्डनमिति भावः ॥ २२ ॥

 जुतामिति । शरमुजुतामार्जवं नयत उत्सङ्गे निष. मङ्कगतम् धनुर्यस्य तस्य । `धनुषश्च” इत्यनङ्गादेशः ॥ ते तव मधुना वसन्तेन सह ॥ “मधुदैत्य वसन्ते च चैत्रे च” इति विश्वः ॥ सस्मितां कथामालापं तथा यनयनोपान्तविलोकितमपाङ्गवीक्षणम् । त इत्यनुषङ्गः। तच्च सुमरामि ॥ २३ ॥


  1. निषङ्क, निषक् ।
  2. विलोकितानि च ।