पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११३
चतुर्यः सर्ग: ॥


शशिना सह याति कौमुदी
सह मेघेन तडित् (३)[१]प्रलीयते।
प्रमदाः पतिव्रतर्मगा इति
प्रतिपन्नं हि विचेतनैरपि ॥ ३३ ॥
अमनैव कषायितस्तनी
सुभगेन प्रियगात्रभस्वना ।
नवपल्लवसंस्तरे यथा
रचयिष्यामि तनु विभावसौ ॥ ३४ ॥


 कर्तव्यश्चायमर्थ: स्त्रणमित्याह--

 शशिनेति । कौमुदौ चन्द्रिका शशिना सह याति । शशिन्यस्तमिते स्वयं नश्यतीत्यर्थः । तडिबलोदामिनी मेघेन सह प्रलीयते प्रणश्यति ॥ कर्तरि लट्॥ प्रमदाः स्त्रियः पतिवनं गच्छन्तौति पतिषर्मगाः पतिमार्गानुगामिन्य इत्यतविचेतनैरल्पचेतनैः । अविवेकिभिरपौत्यर्थः । नाथस्तु “पृथग्जनै” इति पपठ। प्रतिपत्र ज्ञातम् । ‘प्रलवण यवागूः" "अनुदा कन्या” इतिवदल्पत्वाभिप्रायेण विचेतनैरपtत निर्देशः । पतिवर्मगा इत्यत्र स्मृति:-“आर्तार्ते सुदिते हृष्टा प्रोषिते मलिन शशा। ऋते म्रियेत या पत्यौ सा स्नौ या पतिव्रता" इति ॥ ३३ ॥

 अमुनैवेति । अनुना पुरोवर्तिना सुभगेन शोभनेन प्रियगनमक्षमेव । एवकारो मण्डनान्तरनिष्टधर्थः । कषायितस्तनी रञ्जितस्तनी॥ “रागे आथे कषायोऽस्त्री निर्यासे सौरभ रखे” इयि वैजयन्ती॥ नवपलवसंस्तरे यथा नवपल्लवतल्प इव


  1. विधीयते ।